पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
पूर्वमेघः ।

 तस्या इति ॥ हे मेघ, वान्तवृष्टिरुद्गीर्णवर्षः सन् । कृतवसनश्च व्यज्यते । तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च ॥ “तिक्तो रसे सुगन्धौ च" इति विश्वः ॥ वनगजमदैर्वासितं सुरभितं भावितं च । “हिमवद्विन्ध्यमलया गजानां प्रभवाः” इति विन्ध्यस्य गजप्रभवत्वादिति भावः । जम्बूकुञ्जैः प्रतिहतरयं प्रतिबद्धवेगम् ! सुखपेयमित्यर्थः । अनेन लघुत्वं कषायभावना च व्यज्यते । तस्या रेवायास्तोयमादाय गच्छेर्व्रज । हे घन मेघ, अन्तः सारो बलं यस्य तं त्वामनिल आकाशवायुः, शरीरस्थश्च गम्यते । तुलयितुं न शक्ष्यति शक्तो न भविष्यति । तथाहि । रिक्तोऽन्तःसारशून्य सर्वोऽपि लघुर्भवति । प्रकम्प्यो भवतीत्यर्थः । पूर्णता सारवत्ता गौरवायाप्रकम्प्यत्वाय भवतीत्यर्थः ॥ अयमत्र ध्वनिः --आदौ वमनशोधितस्य पुंसः पश्चाच्छलेष्मशोषणाय लघुतिक्तकपायाम्बुपानाल्लब्धबलस्य वातप्रकम्पो न स्यादिति । तथाह वाग्भटः- कपायाश्चाहिमास्तस्य विशुद्धौ श्लेष्मणा हिताः । किमु तिक्तकषाया वा ये निसर्गात्कफापहाः ॥ कृतशुद्धेः क्रमात्पीतपेयादेः पथ्यभोजिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः ॥ इति ॥

 नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैः-
  राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
 जग्ध्वारण्येस्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः
  सारङ्गास्ते जल[]लवमुचः सूचयिष्यन्ति मार्गम् ॥२१॥

क्लोस्

 नीपमिति ॥ सारङ्गा मतङ्गजाः कुरङ्गा भृङ्गा वा ॥ " सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे" इति विश्वः ॥ अर्धरूढैरेकदेशोद्गतैः केसरैः किञ्जल्कैर्हररितं पालाशवर्णं कपिशं कृष्णपीतं च ॥ “पालाशो हरितो हरित्" इति । "श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते" इति चामरः ॥ श्यामवर्णमिति यावत् ॥ "वर्णो वर्णेन" इति समासः ॥ नीपं स्थलकदम्बकुमुमम् ॥ “अथ स्थलकदम्बके । नीपः स्यात्पुलके” इति शब्दार्णवे ॥ दृष्ट्वा संप्रेक्ष्य । विदित्वेति यावत् । तथा कंच्छेष्वनूपेष्वनु-


 ( २१ ) हे मेघ ! मृगा वृष्टिकार्ययोर्नीपकुसुम-भूकन्दलीमुकुलयोर्दर्शनोत्तर भक्षणाद्वनभूमिगन्धग्रहणाच्च तव मार्गमनुमापयिष्यन्तीति भावः ।


  1. नवजलमुचः,