पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२५

पुटमेतत् सुपुष्टितम्
२१
पूर्वमेघः ।

 नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-
  स्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ।
 यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
  मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥

 नीचैरिति ॥ हे मेघ ! तत्र विदिशासमीपे । विश्रामो विश्रमः खेदापनयः ॥ भावार्थे घञ्प्रत्ययः ॥ तस्य हेतोः । विश्रामार्थमित्यर्थः । 'षष्ठी हेतुप्रयोगे" इति षष्ठी ॥ विश्रामेत्यत्र "नोदात्तोपदेशस्य मान्तस्यानाचमेः" इति पाणिनीये वृद्धिप्रतिषेधेऽपि "विश्रामो वा" इति चन्द्रव्याकरणे विकल्पेन वृद्धिविधानाद्रूपसिद्धिः ॥ प्रौढपुष्पैः प्रबुद्धकुसुमैः कदम्बैर्नीपवृक्षैस्त्वत्संपर्कात्तव सङ्गात् । पुलका अस्य जाताः पुलकितमिव संजातपुलकमिव स्थितम् ॥ तारकादित्वादितच्प्रत्ययः ॥ नीचैरित्याख्या यस्य तं नीचैराख्यं गिरिमधिवसेः ॥ गिरौ वसेरित्यर्थः ॥ "उपान्वध्याङ्वसः" इति कर्मत्वम् ॥ यो नीचैर्गिरिः । पण्याः क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः ॥ "वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी" इति शब्दार्णवे ॥ तासां रतिषु यः परिमलो गन्धविशेषः ॥ "विमर्दोत्थे परिमलो गन्धे जनमोहरे" इत्यमरः ॥ तमुद्गिरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः । शिलावेश्मभिः कन्दरैर्नागराणां पौराणामुद्दामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्कटयौवनाः क्वचिदनुरक्ता वारांगना विश्रम्भविहाराकांक्षिण्यो मात्रादिभयान्निशीथसमये कंचन विविक्तं देशमाश्रित्य रमन्ते । तच्चात्र बहुलमस्तीति प्रसिद्धिः अत्रोद्गारशब्दो गौणार्थत्वान्न जुगुप्सावहः । प्रत्युत काव्यस्यातिशोभाकर एव । तदुक्तं दण्डिना--'निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥" इति ॥

 विश्रान्तः सन्व्रज व[१]ननदीतीरजातानि सिञ्च-
  न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ।


(२५) हे मेघ ! क्वचित्पुंस्यनुरक्ता युवत्यो वारांगनाः चिरविहाराकांक्षया मात्रादिभिया यत्र गिरौ रमन्ते तत्र नीचैर्नामगिरौ विश्रामं कुर्या इति भावः ।


  1. नव; नग.