नयतेः" इति वक्तव्याण्णत्वम् ॥ योधानामग्रण्यो भटश्रेष्ठाः संयुगे युद्धे प्रतिदशमुखमभिरावणं तस्थिवांसः स्थितवन्तः । अत एव चन्द्रहासस्य रावणासेर्व्रणानि क्षतान्येवाङ्काश्चिह्नानि तैः॥ "चन्द्रहासो रावणासावसिमात्रेऽपि च क्वचित्" इति शाश्वतः ॥ प्रत्यादिष्टाभरणरुचयः प्रतिषिद्धभूषणकान्ताः । शस्त्रप्रहारा एव वीराणां भूषणमिति भावः ॥ अत्रापि भाविकालंकारः।।
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा
लक्ष्मीं पश्यंल्ललितवनितापादरागांकितेषु ॥३॥
जालोद्गीर्णैरिति । जालोद्रीणैर्गवाक्षमार्गनिर्गतैः ॥ “जालं गवाक्ष आनाये जालके कपटे गणे" इति यादवः ॥ केशसंस्कारधूपैः । वनि- ताकेशवासनार्थैर्गन्धद्रव्यधूपैरित्यर्थः ॥ अत्र संस्कारधूपयोस्तादर्थ्येऽपि यूपदार्वादिवत्प्रकृतिविकारत्वाभावादश्वघासादिवत्षष्टीसमासो न चतुर्थी- समासः ॥ उपचितवपुः परिपुष्टशरीरः। बन्धौ बन्धुरिति वा प्रीत्या भवनशिखिभिर्गृहमयूरैर्दत्तो नत्यमेवोपहार उपायनं यस्मै स तथोक्तः । "उपायनमुपग्राह्यमुपहारस्तथोपदा" इत्यमरः ॥ कुसुमैः सुरभिषु सुग- न्धिषु ॥ ललितवनिताः सुन्दरस्त्रियः ॥ "ललितं त्रिषु सुन्दरम्" इति शब्दार्णवे || तासां पादरागेण लाक्षारसेनाङ्कितेषु चिह्नितेषु हर्म्येषु धनि- कभवनेष्वस्या उज्जयिन्या लक्ष्मीं,पश्यन्नध्वनाऽध्वगमनेन खदं क्लेशं नयेथा अपनय ॥३२॥
भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडानिरंतयुवतिस्नानतिक्तैर्मरुद्भिः ॥३३॥
१ धूमै. २ नृत्तोपचारः. ३ भघ्वखिन्नान्तरात्मा. ४ मुक्त्वा खेदम्, त्यक्त्व खेदम्; रात्रिं नीस्वा. ५ दृश्यमानः. ६ चण्डेश्वरस्य. ७ विरत.
(३२) हे मेघ ! तत्र विशालायां हर्म्येषु लक्ष्मीं पश्यन् मार्गश्रममपन येति भावः ।
(३३) हे मेघ ! तत्र विशालायामतिपवित्रं महाकालस्थानं गच्छेरिति भावः