पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
पूर्वमेघः ।

 पश्चादिति ॥ पश्चात्संध्यावल्यनन्तरं पशुपतेः शिवस्य नृत्यारम्भे ताण्डवप्रारम्भे प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसुमारुणं सन्ध्यायां भवं सान्ध्यं तेजो दधानः । उच्चैरुन्नतं भुजा एव तरवस्तेषां वनं मण्डलेन मण्डलाकारेणाभिलीनोऽभिव्याप्तः सन् ।। कर्तरि क्तः।। भवान्या भवपत्न्या।। “इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्" इति ङीष् । आनुगागमश्च ॥ शान्त उद्वेगो गजाजिनदर्शनभयं ययोस्ते अत एव स्तिमिते निश्चले नयने यस्मिन्कर्मणि तत्तथोक्तम् ॥ “उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि" इति शब्दार्णवे ॥ भक्तिः पूज्येष्वनुरागः ।। भावार्थे क्तिन्प्रत्ययः ॥ दृष्टा भक्तिर्यस्य स दृष्टभक्तिः सन् । पशुपतेरार्द्रं शोणितार्द्रं यन्नागाजिनं गजचर्म "अजिनं चर्म कृत्तिः स्त्री" इत्यमरः ॥ तत्रेच्छां हर निवर्तय । त्वमेव तत्स्थाने भवेत्यर्थः । गजासुरमर्दनानन्तरं भगवान्महादेवस्तदीयमार्द्राजिनं भुजमण्डलेन बिभ्रत्ताण्डवं चकारेति प्रसिद्धिः ।। दृष्टभक्तिरिति कथं रूपसिद्धिः। दृष्टशब्दस्य "स्त्रियाः पुंवत्" इत्यादिना पुंवद्भावस्य दुर्घटत्वादपूरणीप्रियादिष्विति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठादिति । तदेतच्चोद्यं दृढभक्तिरिति शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढ़ं भक्तिरस्येति नपुंसकं पूर्वपदम् । अदार्ढ्यनिवृत्तिपरत्वे दृढ़शब्दाल्लिङ्गविशेषस्यानुपकारित्वात्स्त्रीत्वमविवक्षितमिति ॥ भोजराजस्तु-"भक्तो च कर्मसाधनायामित्यनेन सूत्रेण भज्यते सेव्यत इति कर्मार्थत्वे भवानीभक्तिरित्यादि भवति । भावसाधनायां तु स्थिरभक्तिर्भवान्यामित्यादि भवति" इत्याह । तदेतत्सर्वं सम्यग्विवेचितं रघुवंशसंजीविन्यां "दृढभक्तिरिति ज्येष्ठे' इत्यत्र । तस्माद्दुष्टभक्तिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वेन नपुंसकत्वेन च रूपसिद्धिरस्तीति स्थितम् ॥

 इत्थं महाकालनाथस्य सेवाप्रकारमभिधाय पुनरपि नगरसंचारप्रकारमाह-

 गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
  रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।

रात्री.