सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वी
तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्ताः ॥३७॥
गच्छन्तीनामिति ॥ तत्रोज्जयिन्यां नक्तं रात्रौ रमणवसतिं प्रियभवनं प्रति गच्छन्तीनां योषिताम् । अभिसारिकाणामित्यर्थः । सूचिभिर्भेद्यैः । अतिसान्द्रैरित्यर्थः । तमोभी रुद्धालोके निरुद्धदृष्टिप्रसारे नरपतिपथे राजमार्गे कनकस्य निकषो निकष्यत इति व्युत्पत्त्या निकष उपलगतरेखा तस्येव स्निग्धं तेजो यस्यास्तया ॥ "स्निग्धं तु मसृणं सान्द्रे रम्ये क्लीबे च तेजसि" इति शब्दार्णवे ॥ सुदाम्नाद्रिणैकदिक्सौदामनी विद्युत् "तेनैकदिक्” इत्यणप्रत्ययः ॥ तयोर्वीं मार्गं दर्शय । किंच तोयोत्सर्गस्तनिताभ्यां वृष्टिगर्जिताभ्यां मुखरः शब्दायमानो मा स्म भूः। कुतः । ता योषितो विक्लवा भीरवः। ततो वृष्टिगर्जिते न कार्ये इत्यर्थः ॥ नात्र नोयोत्सर्गसहितं स्तनितमिति विग्रहः । विशिष्टस्येव केवलस्तनितस्याप्यनिष्टत्वात् । न च द्वन्द्वपक्षेऽल्पाच्तरपूर्वनिपातशास्त्रविरोधः "लक्षणहेत्वोः क्रियायाः" इति सूत्र एव विपरीतनिर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनादिति ॥
तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ।
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥३८॥
तामिति ।। चिरं विलसनात्स्फुरणात्खिन्नं विद्युदेव कलत्रं यस्य स भवान्सुप्ताः पारावताः कलरवा यस्यां तस्याम् ॥ विविक्तायामित्यर्थः ॥ "पारावतः कलरवः कपोतः" इत्यमरः ॥जनसंचारस्तत्राऽसंभावित एवेति भावः । कस्यांचिद्भवनवलभौ । गृहाच्छादनोपरिभाग इत्यर्थः । “आच्छादनं स्याद्वलभी गृहाणाम्" इति हलायुधः ॥ तां रात्रिं नीत्वा सूर्ये दृष्टे
१ छायया. २ विमुख. ३ च.
(३७) हे मेघ ! उज्जयिन्यां निशि गच्छन्तीरभिसारिका विद्युता मार्ग प्रदर्शय न च तासां वृष्टिगर्जिताभ्यां भयमुत्पादयेति भावः ।
(३८) हे मेघ ! सुहृत्कार्यसाधकस्त्वं तत्र विशालायां रात्रिं यापयित्वा प्रातर्गच्छेरिति भावः ।