पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४५

पुटमेतत् सुपुष्टितम्
४१
पूर्वमेघः ।

 तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णा
  जन्होः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
 गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव[१] फेनैः
  शंभोः केशग्रहणमकरोदिंदुलग्नोर्मिहस्ता ॥ ५० ॥

 तस्मादिति ॥ तस्मात्कुरुक्षेत्रात्कनखलस्याद्रेः समीपेऽनुकनखलम् ॥ "अनुर्यत्समया" इत्यव्ययीभावः ॥ शैलराजाद्धिमवतोऽवतीर्णां सगरतनयानां स्वर्गसोपानपङिक्तम् । स्वर्गप्राप्तिसाधनभूतामित्यर्थः । जह्नोर्नाम राज्ञः कन्यां जाह्नवीं गच्छेर्गच्छ ॥ विध्यर्थे लिङ् ॥ या जाह्नवी गौर्या बक्रे या भृकुटिरचना सापत्न्यरोषाद्भ्रूभङ्गकरणं तां फेनैर्विहस्यावहस्येव । धावत्न्यात्फेनानां हासत्वेनोत्प्रेक्षा । इन्दौ शिरोमाणिक्यभूते लग्ना ऊर्मय एव हस्ता यस्याः सेन्दुलग्नोर्मिहस्ता सती शंभोः केशग्रहणमकरोत् । यथा काचित्प्रौढा नायिका सपत्नीमसहमाना स्ववाल्लभ्यं प्रकटयन्ती स्वभर्तारं सह शिरोरत्नेन केशेष्वाकर्षति तद्वदिति भावः ॥ इदं च पुरा किल भगीरथप्रार्थनया भगवतीं गगनपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजूटेन जग्राहेति कथामुपजीव्योक्तम् ॥

 तस्याः पातुं सुरगज इव व्योम्नि पश्चा[२]र्द्धलम्बी
  त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
 संस[३]र्पन्त्या सपदि भवतः स्रोतसि च्छाययाऽसौ[४]
  स्यादस्थानोप[५]गतयमुनासङ्ग[६]मेवाभिरामा ॥ ५१ ॥

 तस्या इति ॥ सुरगज इव कश्चिदिग्गज इव व्योम्नि पश्चादर्धं पश्चार्धम् । पश्चिमार्धमित्यर्थः ॥ पृषोदरादित्वात्साधुः ॥ तेन लम्बत इति पश्चार्धलम्बी सन्पश्चार्धभागेन व्योम्नि स्थित्वा । पूर्वार्धेन जलोन्मुख इत्यर्थः । अच्छस्फटिकविशदं निर्मलस्फटिकावदातं तस्या गङ्गाया अम्भस्तिर्यक्तिरश्चीनं यथा तथा पातुं त्वं तर्कयेर्विचारयेश्चेत् । सपदि स्रोतसि


 (५०) हे मेघ ! कुरुक्षेत्रात् कनखलाद्रिनिकटवर्त्तिनीं गंगां व्रजेति भावः ।
 (५१) हे मेघ ! गंगाया जलं पातुं त्वयि लम्बमाने सति त्वच्छायाऽऽवृता सा यमुनासंगतेव शोभिष्यत इति भावः ।


  1. एव; उच्च.
  2. पूर्वार्धलम्बी.
  3. संतर्प्यन्त्या.
  4. सा.
  5. उपनत.
  6. संगमेन.