पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
मेघदूतम् ।

प्रवाहे संसर्पन्त्या संक्रामन्त्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गा अस्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासंगमो यया सा तथाभूतेवा- भिरामा स्यात् ॥

 आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
  तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
 वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
  शोभां शुभ्रत्रियनवृषोत्खातपङ्कोपमेयाम् ॥५२॥

 आसीनानामिति ॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिकामृगाणाम । अन्यथा नाभिगन्धानुपपत्तेः ॥ नाभिगन्धैः कस्तूरीगन्धैस्तेषां तदुद्भवत्वात् । अत एव मृगनाभिसंज्ञा च ॥ "मृगनाभिर्मृगमदः कस्तूरी च" इत्यमरः ॥ अथ वा नाभयः कस्तूर्यः ॥ "नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः” इति विश्वः ॥ तासां गन्धैः सुरभिताः सुरभीकृताः शिला यस्य तं तस्या गङ्गाया एव प्रभवत्यस्मादिति प्रभवः कारणम । तुषारैर्गौरं सितम् ।। “अवदातः सितो गौरः' इत्यमरः ॥ अचलं प्राप्य । विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् । अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः शृङ्गे निषण्णः सन् । शुभ्रो यस्मिनयनस्य त्र्यम्बकस्य वृषो वृषभः ।। "सुकृतं वृषभे वृषः" इत्यमरः ॥ तेनोत्खातेन विदारितेन षङ्केन सहोपमेयामुपमातुमर्हा शोभां वक्ष्यसि वोढासि । वहतेर्लृट् ।। "त्रिनयन-" इत्यत्र “पूर्वपदात्संज्ञायामगः” इति णत्वं न भवति "क्षुभ्नादिषु च" इति निषेधात् ॥ तस्याः प्रभवमित्यादिना हिमाद्रौ मेघस्य वैवाहिको गृहविहारो ध्वन्यते ।।

 तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा
  बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।
 अर्हस्येनं शमयितुमलं वारिधारासहस्रै-
  रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥५३॥


 (५२) हे मेघ ! मार्गस्वेदापनोदनाय शुभ्रं हिमाद्रिशिखरमुपविष्टस्वमुत्खातपङ्को हरवृषभ इव शोभिष्यस इति भावः ।
 (५३) हे मेघ ! वनवायुवर्दितेन वनाग्निना हिमाद्रौ बाधिते सति तं धारासम्पातै: शमयेति भावः ।

१ शुभ्राम; रम्याम्.