पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
मेघदूतम् ।

तथोक्ताः । निष्फलकर्मोपक्रमा इत्यर्थः । अतः के वा परिभवपद तिरस्कार पदं न स्युर्न भवन्ति । सर्व एव भवन्तीत्यर्थः ॥ यदत्र “धनोपलस्तु करके" इति यादववचनात्करशब्दम्य नियनपुंलिङ्गताभिप्रायेण "करकाणां वृष्टिः" इति केपांचिद्व्याख्यानं तदन्ये नानुमन्यन्ते । “वर्षोपलस्तु करका" इत्यमरवचनव्याख्याने क्षीरस्वामिना "कमण्डलौ च करकः सुगते च विनायकः इति नानार्थे पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाशनात् । यादवस्य तु पुंलिङ्गताविधाने तात्पर्यं न तु स्रोलिङ्गतानिषेध इति न तद्विरोधाऽपि । "करकस्तु करङ्के स्याद्दाडिमे च कमण्डलौ । पक्षिभेदे करे चापि करका च घनोपले" इति विश्वप्रकाशवचने तूभयलिङ्गता व्यक्तैवेति न कुत्रापि विरोधवार्ता । अत एव रुद्रः "वर्षोपलस्तु करका करकोऽपि च दृश्यते" इति ॥

 तत्र व्यक्तं दृषदि चरणन्मासमर्धेन्दुमौलेः
  शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ।
 यस्मिन्दृष्टे करणविगमादृर्ध्वमुद्धूतपापाः
  संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥५॥

 तत्रेति ॥ तत्र हिमाद्रौ दृषदि कस्यांचिच्छिलायां व्यक्तं प्रकटं शश्वसदा सिद्धर्योगिभिः ॥ “सिद्धिर्निष्पत्तियोगयोः" इति विश्वः ॥ उपचितबलिं रचितपूजाविधिम् ॥ "बलि: पूजोपहारयोः" इति यादवः ॥ अर्धश्वासाविन्दुश्चेत्यर्धेन्दुः ॥ "अर्धः खण्डे समेंऽशके" इति विश्वः ॥ स मौलो यस्य तस्येश्वरस्य चरणन्यासं पादविन्यासम् । भक्तिः पूज्येष्वनुरागस्तया नम्रः सन्परीयाः प्रदक्षिणं कुरु ॥ परिपूर्वादिणो लिङ् ॥ यस्मिन्पादन्यासे दृष्टे सत्युद्धूतपापा निरस्तकल्मषाः सन्तः श्रद्दधाना विश्वसन्तः पुरुषाः । श्रद्धा विश्वासः । आस्तिक्यबुद्धिरिति यावत् ॥ "श्रदन्तरोरुपसर्गवद्वृत्तिवक्तव्या" इति श्रुत्पूर्वाधातेः शानच ॥ करणस्य क्षेत्रस्य विगमादूर्ध्वं देहत्यागानन्तरम् ॥ "करणं साधकतम क्षेत्रगात्रेन्द्रियेषु च" इत्यमरः ॥ स्थिरं शाश्वतं गणानां प्रमथानां पदं स्थानम् ॥ "गणाः प्रमथसंख्यौघाः"


 (५५) हे मेघ ! हिमाद्रौ यस्य शिवपदन्यासस्य दर्शनाज्जनाः मुक्तिभाजो भवन्ति तं शिवपदन्यासं प्रदक्षिणं कुर्विति भावः ।

१ उपहृत; उपहित. २ दूरम् ३ कल्पिच्यन्ते; करूपन्तेऽस्य.