पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
मेघदूतम् ।

 हित्वेति ॥ तस्मिन्क्रीडाशैले कैलासे ॥ "कैलासः कनकाद्रिश्च मन्दरो गन्धमादनः । क्रीडार्थं निर्मिताः शंभोर्देवैः क्रीडादयोऽभवन्" इति शंभुरहस्ये ॥ शंभुना शिवेन भुजग एव वलयः कङ्कणं हित्वा गौर्या भीरुत्वात्त्यक्त्वा दत्तहस्ता सती गौरी पादचारेण विचरेद्यदि तर्ह्यग्रयायी पुरोगतस्तथा स्तम्भितो घनीभावं प्रापितोऽन्तर्जलस्यौध: प्रवाहो यस्य स तथाभूतः । भङ्गीनां पर्वणां भक्त्या रचनया विरचितवपुः कल्पितशरीरः सन् मणीनां तटं मणितटं तस्यारोहणाय सोपानत्वं कुरु । सोपानभावं भजेत्यर्थः ॥

 तत्रावश्यं वलयकुलिशोद्दट्टनोद्गीर्णतोयं
  नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
 ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्या-
  क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः॥६१॥

 तत्रेति ॥ तत्र कैलासेऽवश्यं सर्वथा सुरयुवतयो वलयकुलिशानि कङ्कणकोटयः ॥ शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते । तैरुद्दट्टनानि प्रहारास्तैरुद्गीर्णमुत्सृष्टं तोयं येन तं त्वां यन्त्रेषु धारा यन्त्र धारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति ॥ हे सखे मित्र, धर्मे निदाघे लब्धस्य ॥ धर्मलब्धत्वं चास्य देवभूमिषु सर्वदा सर्वर्तुसमाहारात्प्राथमिकमेघत्वाद्वा । यथोक्तम्-"आषाढस्य प्रथम-" इति ॥ तव ताभ्यः सुरयुवतिभ्यो मोक्षो न स्याद्यदि तदा क्रीडालोलाः क्रीडासक्ताः प्रमत्ता इत्यर्थः । ताः सुरयुवतीः श्रवणपरुषैः कर्णकटुभिर्गर्जितैः करणैर्भाययेस्त्रासयेः ॥ अत्र हेतुभयाभावादात्मनेपदं षुगागमश्च न ॥

 हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
  कुर्वन्कामं क्षणमुखपटप्रीतिमैरावतस्य ।


 (६१) हे मेध ! तत्र कैलासे सुरयुवतिवलयप्रहारपीडितस्त्वं ताः कठोरगर्जनैस्त्रासयेति भावः ।


१ जनितसलिलोद्गारमन्तःप्रवेशम्. २ शर्व. ३ कामात्. ४ ऐरावणस्य.