पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
मेघदूतम् ।

"शङ्का वितर्कभययोः" इति शब्दार्णवे ॥ धूमोद्गारस्य धूमनिर्गमस्यानुकृतावनुकरणे निपुणाः कुशला जर्जरा विशीर्णाः सन्तो जालमार्गैर्गवाक्षरन्ध्रैर्निपतन्ति निष्क्रामन्ति ॥ यथा केनचिदन्तःपुरसंचारवता दूतेन गूढ्वृत्त्या रहस्यभूमिं प्रापितास्तत्रैव स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशङ्काः क्लृप्तवेपान्तरा जाराः क्षुद्रमार्गैर्निष्क्रामन्ति तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा ॥

 यत्र स्त्रोणां प्रियतमभुजालिंगनोच्छ्कासिताना-
  मंगग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
 त्वत्संरोधापगमविशदैश्चन्द्र पादैर्निशीथे
  व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥७॥

 यत्रति ॥ यत्रालकायां निशीथेऽर्द्धरात्रं ॥ "अर्धरात्रनिशीथो द्वौ" इत्यमरः ॥ त्वत्संरोधस्य मेघावरणस्यापगमेन विशदैनिर्मलैश्चन्द्रपादैश्चन्द्रमरोचिभिः ॥ "पादा रश्म्यङ्घितुर्यांशाः" इत्यमरः ॥ स्फुटजललवस्यन्दिन उल्वणाम्बुकणस्राविणस्तन्तुजालाबलम्बा वितानलम्बिसूत्रपुञ्जधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः । प्रियतमानां भुजैरालिङ्गनेपूच्च्छ्वासितानां प्रशिथिलीकृतानाम् । श्रान्त्या जलसेकाय वा शिथिलिताङ्गानामिति यावत् । स्त्रीणां सुरतजनितामङ्गग्लानिं शरीरखेदम् । अवयवानां ग्लानतामिति यावत् । व्यालुम्पन्त्यपनुदन्ति ॥

 अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-
  रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् ।
 वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
  बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥८॥

 अक्षय्येति ॥ यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ "क्षय्यजय्यौ


 (७) हे मेघ ! यत्रालकायां निशीथे चन्द्रकान्तमणयः स्त्रीणां सुरतश्रममपहरन्ति तामिति भावः।
 (८) हे मेष ! यत्रालकायाः सुरवनितासहचराः कामिनो यक्षैः सह वैभ्राजनाम बाह्योद्यानं प्रविशन्तीति भावः ।

१ भुञ्जोच्छवासितालिङ्गितानाम्, २ प्रेरिताश्चन्द्रपादैः, प्रेरितैश्चन्द्रपादैः, चोदिताश्चन्द्रपादः, ३ नव,