पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
उत्तरमेघः ।

शक्यार्थे" इति निपातः । ततो नञ्समासः ॥ भवनानामन्तरन्तर्भवनम् ॥ "अव्ययंबिभक्ति -" इत्यादिनाव्ययीभावः ॥ अक्षय्या अन्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसंभावनार्थमिदं विशेषणम् ॥ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः ॥ "वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः। सत्कृता वारमुख्या स्यात्" इत्यमरः ॥ बद्धालापाः संभावितसंलापाः कामिनः कामुका प्रत्यहमहन्यहनि ॥ "अव्ययं विभक्ति-" इत्यादिना समासः ॥ रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सुन्दरकण्ठध्वनिभिर्धनपतियशः कुवेरकीर्तिमुद्गायद्भिरुच्चैर्गायनशीलैः। देनगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थ ॥ किंनरैः सार्धं सह । विभ्राजस्येदं वैभ्राजम् वैभ्राजमित्याख्या यस्य तद्वैभ्राजाख्यम् ॥ "विभ्राजेन गणेन्द्रेण जातं वैभ्राजमाख्या" इति शंभुरहस्ये ॥ चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं बाह्योद्यानं निर्विशन्त्यनुभवन्ति ॥

 गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
  पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
 मुक्ताजालैः स्तनपरिसराच्छन्नसूत्रैश्च हारै-
  र्नैशो मार्गः सतुतुरुदये सूच्यते कामिनीनाम् ।।६।।

 गतीति ।। यत्रालकायां कामिनीनामभिसारिकाणाम् । निशि भवो नैशो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोरलकेभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलतानां छेदैः खण्डैः । पतितैरिति शेषः ॥ तथा कर्णेभ्यो विभ्रश्यन्तीति कर्णविभ्रंशोनि तैः कनकस्य कमलैः ॥ षष्ठया विवक्षितार्थलाभे सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् ॥ तथा मुक्ताजालैर्मौक्तिकसरैः । शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः प्रदेशस्तत्र छिन्नानि सूत्राणि


 (९) यत्रालकायां मार्गच्युतमन्दारपुष्पादिचिन्हैरभिसारिकामार्गाऽनुमान भवतीति भावः ।

१ गत्योत्कम्पात्. २ क्लसच्छेदैः. ३ नदिनैः ४ विस्त्रंसिभिः. ५ मुक्तालग्नैः. ६ परिमलैः.