पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
मेघदूतम् ।

र्गुच्छैर्नमितः ॥ "स्याद्गुच्छकस्तु स्तबकः" इत्यमरः ॥ बालो मन्दारवृक्षः कल्पवृक्षोऽस्तीति शेषः ॥

 इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह-

 वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा
  हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः ।
 यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं
  नाध्यास्यंति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥१३॥

 वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गो यस्याः सा तथोक्ता । विदूरे भवा वैदूर्याः ॥ "विदूराञ्ञ्यः” इति ञ्यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि विकारार्थेणप्रत्ययः ॥ स्निग्धानि वैदूर्याणि नालानि येषां तैर्हेमैर्विकचकमलैश्छन्ना वापी च । अस्तीति शेषः ॥ यस्या वाप्यास्तोये कृतवसतयः कृतनिवामा हंसास्त्वां मेघं प्रेक्ष्यापि व्यपगतशुचो वार्षाकालंऽपि व्यपगतकलुपजलत्वादीतदुःखाः सन्तः संनिकृष्टं संनिहितम् । सुगममपीत्यर्थः । मानसं मानससरो नाध्यास्यन्ति नोकराठ्या स्मरिष्यन्ति ॥ "आध्यानमुत्कण्ठापूर्वक स्मरणम" इति काशिकायाम् ।।

 तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलः
  क्रीडाशैलः कनककदलीवेटनप्रेक्षणीयः।
 मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
  प्रेक्ष्योपान्तस्फुरिततडितं त्वांतमेव स्मरामि॥१४॥

 तस्या इति ॥ तस्या वाप्यास्तीरे पेशलैश्चारुभिः ॥ "चारौ दक्षे च पेशलः" इत्यमरः । इन्द्रनीलै रचितशिखरः । इन्द्रनीलमणिमय-


 (१३) हे मेघ ! मदीयभवनस्थवाप्यो वसन्तो हंसास्त्वां वीक्ष्य मानसं न स्मरिष्यन्तीति भावः ।
 (१४) हे मेघ । स्वभवनस्थवाणीतटवर्तिक्रीडाशैलप्रान्ते स्थितं विद्युता शोभमानं स्वां वीक्ष्य तमेव शैलं स्मरामिति भावः ।

१ विकचकुसुमैः, कमलमुकुलः, २ ध्यास्यन्ति; ध्यायन्ति. ३ यस्थाः, ४ निचित, ५ वेष्टगः।