पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६५

पुटमेतत् सुपुष्टितम्
६१
उत्तरमेघः ।

शिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधानेन प्रेक्षणीयो दर्शनीयः क्रीडाशैलः । अस्तीति शेषः । हे सखे ! उपान्तेषु प्रान्तेषु स्फुरितास्तडितोयस्य तत्तथोक्तम् । इदं विशेषणं कदलीसाम्यार्थमुक्तम् । इन्द्रनीलसाम्यं तु मेघस्य स्वाभाविकमित्यनेन सूच्यते । त्वां प्रेक्ष्य मद्गेहिन्याः प्रिय इति हेतोः । तस्य शैलस्य मद्गृहिणीप्रियत्वाद्धेतोरित्यर्थः । कातरेण भीतेन चेतसा । भयं चात्र सानन्दमेव । "वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात् । श्रवणात्कीर्तनाद्वापि सानन्दा भीर्यथा भवेत् ॥" इति रसाकरे दर्शनात् । तमेव क्रीडाशैलमेव स्मरामि । एवकारो विषयान्तरव्यवच्छेदार्थः । सदृशवस्त्वनुभवादिष्टार्थस्मृतिर्जायत इत्यर्थः । अत एवात्र स्मरणाख्योऽलंकारः । तदुक्तम्--"सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते" इति । निरुक्तकारस्तु "त्वां तमेव स्मरामि" इति योजयित्वा मेघे शैलत्वारोपमाचष्टे तदसंगतम् । अद्र्याकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभावादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृशेऽपि शालग्रामे हरिभावनादर्शनादिति ।

 रक्ताशोकश्चलकिसलयः केसरश्चा[१]त्र कान्तः
  प्रत्यासन्नौ[२] कुरबकवृतेर्माधवीमण्डपस्य ।
 एकः सख्यास्तव सह मया वामपादाभिलाषी
  काङ्क्षन्त्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ १५ ॥

 रक्तेति ॥ अत्र क्रीडाशैले कुरबका एव वृतिरावरणं यस्य तस्य । मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्यातिमुक्तलतागृहस्य । "अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता" इत्यमरः प्रत्यासन्नौ संनिकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्जलित्वं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम् । "प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुसिद्धिकरः श्वेतो रक्तोऽत्र स्मरवर्धनः ।" इत्यशोककल्पे दर्शनात् । कान्तः कमनीयः केसरो बकु


 (१५) हे मेघ ! तत्र क्रीडाशैले रक्ताशोक-वकुलौ मया सह तव सख्याः वामपादवदनमदिरयोरभिलाषिणौ स्त इति भावः ।


  1. तत्र,
  2. प्रत्यासन्नः ।