पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
मेघदूतम् ।

लश्च । “अथ केसरे। बकुलो वञ्जुल:" इत्यमरः । स्त इति शेषः । एकस्तयोरन्यतरः । प्राथमिकत्वादशोक इत्यर्थः । मया सह तव सख्याः । स्वप्रियाया इत्यर्थः । वामपादाभिलाषी । दोहदच्छद्मनेत्यत्रापि संबन्धनीयम् । स चाहं च । अभिलाषिणावित्यर्थः । अन्यः केसरः । दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् । “तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया ॥” इति शब्दार्णवे। तस्य छद्मना व्याजेन । “कपटोऽस्त्री व्याजदम्भोपधयश्छद्म कैतवे" इत्यमरः । अस्यास्तव सख्या वदनमदिरां गण्डूषमद्यं काङ्क्षति । मया सहेत्यत्रापि संबन्धनीयम् । अशोकबकुलयोः स्त्री पादताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः ।। "स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलः सीधुगण्डूषसेकात्पादाघातादशोकस्तिलककुरबकौ वीक्षणालिङ्गनाभ्याम् । मंदारो नर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः" ।।

 तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-
  र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
 तालैः शिञ्जाबलयसुभगैर्नर्तितः कान्तया मे
  यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥१६॥

 तन्मध्य इति । किं चेति चार्थः । तन्मध्ये तयोर्वृक्षयोर्मध्येऽनतिप्रौढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुणवेणुसच्छायैर्मणिभिर्मरकतशिलाभिर्मूले बद्धा। कृतवेदिकेत्यर्थः । स्फटिकं स्फटिकमयं फलकं पीठं यस्याः सा काञ्चनस्य विकारः काञ्चनी सौवर्णी वासयष्टिर्निवासदण्डः अस्तीति शेषः । सिञ्जा भूषणध्वनिः । "भूषणानां तु शिञ्जितम्" इत्यमरः । भिदादित्वादङ् । शिञ्जिधातुरयं तालव्यादिर्न तु दन्त्यादिः । शिञ्जाप्रधानानि वलयानि तै: सुभगा रम्यास्तैस्तालैः करतलवादनैर्मे मम कान्तया नर्तितो वो युष्माकं सुहृत्सखा नीलकण्ठो मयूरः । “मयूरो बर्हिणो बर्ही नीलकण्ठो-


 (१) हे मेघ ! रक्ताशोक-बकुलयोर्मध्ये स्थितां सौवर्णयष्टिं प्रियया नर्तितो मयूरः सायमध्यास्त इत्यर्थः ।

१ तत्तन्मध्ये, २ नद्धा, ३ सिञ्जत्, ४ नर्तितैः