अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥१८॥
गत्वेति ॥ हे मेघ, शीघ्रसंपात एव हेतुस्तस्य, शीघ्रप्रवेशार्थमित्यर्थः । “षष्ठीहेतुप्रयोगे” इति पष्ठी ॥ "संपातः पतने वेगे प्रवेशे वेदसंविदे” इति शब्दार्णवे। सद्यः सपदि कलभस्य करिपोतस्य तनुरिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथितं "तस्यास्ती" इत्यादिना पूर्वोदृष्टे रम्यसानौ। निषीदनयोग्य इत्यर्थः । क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पा-प्रकारा भाः प्रकाशोयस्यास्ताम् । “प्रकारे गुणवचनस्य" इति द्विरुक्तिः । खद्योतानामालीतस्यां विलसितेन स्फुरितेन निभां समानां विद्युदुन्मेषो विद्युत्प्रकाशः सएव । दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तुमर्हसि, यथा कश्चित्किंचिदन्विष्यन्क्वचिदुन्नते स्थित्वा शनैः शनैरतितरां द्राघीयसीं दृष्टिमिष्टदेशं पातयति तद्वदित्यर्थः ॥
संप्रति दृष्टिपातफलस्याभिज्ञानं श्लोकद्वयेनाह-
तन्वी श्यामा शिग्वरिदशना पक्वबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥१९॥
तन्वीति ॥ तन्वी कृशाङ्गो, न तु पीवरी । “श्लक्ष्णं दभ्रं कृश तनु" इत्यमरः । “वोतोगुणवचनात्" इति ङीष् । श्यामा युवतिः । "श्यामा यौवनमध्यस्था" इत्युत्पलमालायाम् । शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः । “शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु" इति विश्वः । शिखरिणो दशना दन्ता यस्याः सा । एतेनास्या भाग्यवत्त्वं पत्यायुष्करं च सूच्यते । तदुक्तं सामुद्रिके-"स्निग्धाः समान-
(१८) हे मेघ ! करिशावकतनुमिवाऽल्पशरीरं विधाय क्रीडाशैले समुपविष्टस्त्वं भवनमध्ये विद्युत्प्रकाशरूपदृष्टिं कर्तुमर्हसीति भावः ।
(१९) हे मेघ ! तत्र भवने तन्वीत्यादिविशेषणविशिष्टा या स्त्री भवता
दृश्येत सैव मम प्राणप्रिया बोध्येति भावः ।
१ अधरौष्ठी २ आस्ते. ३ एव ।