पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
उत्तरमेघः ।

रूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् । ताम्बूलरसरक्तेऽपि स्फुटभासः समोदयाः। दन्ताः शिखरणो यस्या दीर्घं जीवति तत्प्रियः ।" इति । पक्वं परिणतं बिम्बं बिम्बिकाफलमिवाधरोष्ठो यस्याः सा पक्वबिम्बाधरोष्ठी । “शाकपार्थिवादित्वान्मध्यमपदलोपी समासः" इति वामनः । “नासिकोदरौष्ठ-" इत्यादिना ङीष् । मध्ये क्षामा कृशोदरीत्यर्थः । चकितहरिण्याः प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता । एतेनास्याः पद्मिनीत्वं व्यज्यते । तदुक्तं रतिरहस्ये । पद्मिनीलक्षणप्रस्तावे-"चकितमृगशाभे प्रान्तरक्ते च नेत्रे” इति । निम्ननाभिर्गम्भीरनाभिः । अनेन नारीणां नाभिगाम्भीर्यान्मदनातिरेक इति कामसूत्रार्थः सूच्यते । श्रोणीभारादलसगमना मन्दगामिनी, न तु जघनदोषात् । स्तनाभ्यां स्तोकनम्रोषदवनता, न तु वपुर्दोषात् । युवतय एव विषयस्तस्मिन्युवतिविषये। युवतीरधिकृत्येत्यर्थः । धातुर्ब्रह्मण आद्या सृष्टिः प्रथमशिल्पमिव स्थितेत्युत्प्रेक्षा । प्रथमनिर्मिता युवतिरियमेवेत्यर्थः । प्रायेण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्माणसौष्ठवं दृश्यत इत्याद्यविशेषणम् । तथा चास्मिन्प्रपञ्चे न कुत्राप्येवंविधं रमणीयं रमणीरत्नेष्वस्तीति भावः । तदेवंभूता या स्त्री तत्रान्तर्भवने स्यात् । तत्र निवसेदित्यर्थः । तामित्युत्तरश्लोकेन संबन्धः ॥

 तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
  दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
 गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
  जातां मध्ये शिशिरमथितां पद्मिनी वान्यरूपाम्।।२०॥

 तामिति ॥ सहचरे सहचारिणि अनेन वियोगासहिष्णुत्वं व्यज्यते । मयि दूरीभूते दूरस्थिते सति सहचरे चक्रवाके दूरीभूते सति चक्रवाकीं चक्रवाकवधूमिव । “जातेरस्त्रीविषयादयोपधात्" इति ङीष्। परिमितकथां परिमितवाचम् । एकामेकाकिनीं स्थितां तामन्तर्भवनगतां मे द्वितीयं


 (२) हे मेघ ! प्रियविरहितां चक्रवाकीमिव शिशिरकालपीडितां पद्मिनीमिव मया विरहितां प्रियां जानामीति भावः ।

१ जानीया;