पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
पूर्वमेघः ।

 आलोके ते निपतति पुरा सा बलिव्याकुला वा
  मत्सादृश्यं विरहतनु वा भावगम्यं खिलन्ती।
 पृच्छन्ती वा मधुरवचना सारिकां पञ्जरस्थां
  कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२२॥

 आलोकेति ॥ हे मेघ ! सा मत्प्रिया । बलिषु नित्येषु प्रोषितागमनार्थेषु च देवताराधानेषु व्याकुला व्यापृता वा । विरहेण तनु कृशं भावगम्यम् । तत्कार्श्यस्यादृष्टचरत्वात्संप्रति संभावनयोत्प्रेक्ष्यमित्यर्थः । मत्सादृश्यं मदाकारसाम्यम् । मत्प्रतिकृतिमित्यर्थः । यद्यपि सादृश्यं नाम प्रसिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथा लेख्यत्वासंभवात् । अक्षय्यकोशे "आलेख्येऽपि च सादृश्यम्" इत्यभिधानात् । लिखन्ती क्वचित्फलकादौ विन्यस्यन्ती वा चित्रदर्शनस्य विरहिणीविनोदोपायत्वादिति भावः । एतच्च कामशास्त्रसंवादेन सम्यग्विवेचितमस्माभी रघुवंशसजीविन्याम् "सादृश्यप्रतिकृतिदर्शनैः प्रियायाः" इत्यत्र । मधुरवचनां मञ्जुभाषिणीम् । अत एव पञ्जरस्थाम् । हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके ! भर्तुः स्वामिनः स्मरसि कच्चित् । “कच्चित्कामप्रवेदने' इत्यमरः । भर्तारं स्मरसि किमित्यर्थः । “अधीगर्थदयेशां कर्मणि" इति कर्मणि षष्ठी। स्मरणे कारणमाह-हि यस्मात्कारणात्त्वं तस्य भर्तुः । प्रीणातीति प्रिया।। "इगुपधज्ञाप्रीकिरः क” इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वात्स्मर्तुमर्हसीति भावः । इत्येवं पृच्छन्ती वा ॥ वाशब्दो विकल्पे ॥ "उपमायां विकल्पे वा" इत्यमरः ॥ ते तवालोके दृष्टिपथे पुरा निपतति । सद्योनिपतिष्यतीत्यर्थः ॥ “स्यात्प्रबन्धे पुरातीते निकटागामिके पुरा" इत्यमरः ॥ "यावत्पुरानिपातयोर्लट्” इति लट् ॥

 उत्सङ्गे वा मलिनवसने सौम्य ! निक्षिप्य वीणां
  मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा।


 (२२) हे मेघ ! सा मत्प्रिया देवाराधनादिकार्यं कुर्वन्ती तव दृष्टिपथे सद्योनिपतिष्यतीति भावः।

१ पुरे. २ तनुना. ३ निभृते.