पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
उत्तरमेघः ।

दिना पुगागमः ॥ स एव कालः सुखिनामल्पः प्रतीयते । दुःखिनां तु, विपरीत इति भावः । एतेन कार्श्यावस्थोक्ता ॥

 पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा-
  न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
 चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं
  साभ्रेऽह्नीव स्थलकलिनीं न प्रबुद्धां न सुप्ताम् ॥२७॥

 पादानिति ॥ जालमार्गप्रविष्टान्गवाक्षविवरगतानमृतशिशिरानिन्दोः पादान्रश्मीन्पूर्वप्रीत्या पूर्वस्नेहेन । पूर्ववदानन्दकरा भविष्यन्तीति बुद्ध्येति भावः । अभिमुखं यथा तथा गतं तथैव संनिवृत्तं यथागतं तथैव प्रतिनिवृत्तम् । तदा तेषामतीवदुःसहत्वादिति भावः। चक्षुर्दृष्टिं खेदात्सलिलगुरुभिरश्रुदुर्भरैः पक्ष्मभिश्छादयन्तीम् । अत एव साभ्रे दुर्दिनेऽह्नि दिवसे न प्रबुद्धां मेघावरणादविकसितां न सुप्तामहरित्यमुकुलिताम् ॥ उभयत्रापि नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ स्थलकमलिनीमिव स्थिता । एतेन विषयद्वेषाख्या पष्ठी दशा सूचिता ॥

 निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
  शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
 मत्संभोगः कथमुपनयेत्स्वप्नजोऽपीति निद्रा-
  माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम्।।२८।।

 निःश्वासेति ॥ शुद्धस्नानात्तैलादिरहितस्नानात्परुषं कठिनस्पर्शं नूनमागण्डलम्बम् ॥ सुप्सुपेति समासः ॥ अलकं चूर्णकुन्तलान् ॥ जातावेकवचनम् ।। अधरकिसलयं क्लेशयति क्लिश्नातीति वा तेन तथोक्तेन । उष्णेनेत्यर्थः ॥ क्लिश्यतेर्ण्यन्तात्क्लिश्नातेरण्यन्ताद्वा ताच्छील्ये णिनिः ॥


 (२७) हे मेघ ! यथा मेघावृते दिने स्थलकमलिनी न विकसति न संकुचति तथैव मद्विरहिता प्रिया ज्ञेयेति भावः ।
 (२८) हे मेघ ! निश्श्वासद्वारा चूर्णकुन्तलं चालयन्तीं स्वप्नावस्थाजन्यसंभोगस्याप्याकांक्षया निद्रामभिलषन्तीं प्रियां सुखयितुं पश्येति भावः ।

१ सजला, २ विश्वासेन, ३ लम्बि, ४ संयोगः ५ कथमपि भवेत् ; क्षणमपि भवेत् ।