यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥३६॥
भर्तुरिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभर्तृका। हे
अविधवे । अनेन भर्तृजीवनसूचनादनिष्टाशङ्कां वारयति । मां भर्त्तुस्तव पत्युः प्रियं मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्थापितैस्तत्संदेशैस्तस्य भर्तुः संदेशैस्त्वत्समीपमागतम्। भर्तुः संदेशकथनार्थमागतमित्यर्थः । अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवलमहं वार्ताहरः किंतु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मेघो मन्दस्निग्धं स्निग्धगम्भीरैर्ध्वनिभिगर्जितैः करणैः अबलानां स्त्रीणां वेणयस्तासां मोक्षे मोचने उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोषितानां प्रवासिनाम् । पान्थानामित्यर्थः । वृन्दानि सङ्खांस्त्वरयति । पान्थोपकारिणो मे किमु वक्तव्यं सुहृदुपकारित्वमिति भावः ।।
भर्तृसख्यादिज्ञापनस्य फलमाह-
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैवम् ।
श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां
कान्तोदन्तः सुहृदुपनतः संगमात्किंचिदूनः ॥३७॥
इतीति । इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सीतेव सा मत्प्रिया । उन्मुख्युत्कण्ठ्यौत्सुक्येनोच्छवसितहृदया विकसितचित्ता सती त्वां वीक्ष्य संभाव्य सत्कृत्य च । अस्माद्भर्तृमैत्रीज्ञापनात्परं सर्वं श्रोतव्यम् । अवहिताऽप्रमत्ता सती श्रोष्यत्येव ॥ अत्र सीताहनुमदुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसंपत्तिश्च व्यज्यते । तदगुणास्तु रसाकरे---"ब्रह्मचारी बली धीरो मायावी मानवर्जितः । धीमानुदारो निःशङ्को वक्ता दूतः स्त्रियां भवेत् ॥” इति ॥ ननु वार्तामात्रश्रवणादस्याः
(३६) हे मेघ ! त्वया प्रियाम्प्रतीत्थं वाच्यम्, हे मानिनि ! मां पत्युर्मित्रं विद्धि तत्संदेशमादाय त्वदन्तिकमागतोऽस्मीति भावः ।
(३७) हे मेघ! मत्सख्यभिधानमाकर्णयन्ती प्रिया मारुतं जानकीव त्वां वीक्ष्य सत्कृत्य च सन्देशं श्रोष्यतीत्यर्थः।
१ मन्त्र; सान्द्र. २ संभाष्य. ३ एव. ४ उपगतः.