पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
उत्तरमेघः ।

को लाभ इत्याशङ्क्यार्थान्तरमुपन्यस्यति-हे सौम्य साधो, सीमन्तीनीनां वधूनाम् ॥ "नारी सीमन्तिनी वधूः" इत्यमरः ॥ सुहृदा सुहृन्मुखेनोपनतः प्रातः सन् । सुहृत्पदं विप्रलम्भशङ्कानिवारणार्थम । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ "वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्" इत्यमरः ॥ संगमात्कान्तसंपर्कात्किंचिदून ईषदूनस्तद्वदेवानन्दकारीत्यर्थः ॥  संप्रति संदिशति-

 तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं
  ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ।
 अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः
  पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥३८॥

 तामिति ॥ हे आयुष्मन् । प्रशंसायां मतुप् । परोपकारश्लाध्यजीवितेत्यर्थः ॥ मम वचनं प्रार्थनावचनं तस्माच्चात्मनः स्वस्योपकर्तुं च परोपकारेणात्मानं कृतार्थयितुमित्यर्थः ॥ उपकारक्रियां प्रति कर्मत्वेऽपि तस्योपकरोतीत्यादिवत्संबन्धमात्रविवक्षायामात्मन इति पष्ठी न विरुध्यते । यथाह भारविः-“सा लक्ष्मीरुपकुरुते यया परेषाम्” इति । तथा श्रीहर्षश्च-“साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मानां श्रोतुम् ॥” इति । तथा च 'क्वचित्क्वचित् द्वितीयादर्शनात्सर्वस्य तथा" इति नाथवचनमनाथवचनमेव ॥ तां प्रियामेवं ब्रूयात् । भवानिति शेषः । किमित्याह । हे अबले, तव सहचरो भर्ता रामगिरेश्चित्रकूटस्याश्रमेषु तिष्ठतीति रामगिर्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह--वियुक्तो वियोगं प्राप्तो दुःखी संस्त्वां कुशलं पृच्छति ॥ दुह्यादित्वात्पृच्छतेर्द्विकर्मकत्वम् तथाहि । सुलभविपदामयत्नसिद्धिविपत्तीनां प्राणिनामेतदेव कुशलमेव पूर्वाभाष्यमेतदेव प्रथममवश्यं प्रष्टव्यम् “कृत्याश्च" इत्यावश्यकार्थे ण्यत्प्रत्ययः ॥ .


 (३८) हे मेघ ! रामगिर्याश्रमस्थस्तव स्वामी निरामयस्त्वां कुशलं पृच्छतीत्येवं तां ब्रूया इति भावः ।

१ आयुष्मान्. २ ब्रूयाः. ३ एकम्. ४ वियुक्ताम्; नियुक्तः. ५ पूर्वाश्वास्यं सुलभविपदां प्राणिनामेतदेव; भूतानां हि क्षयिषु करणेष्वाद्यमाश्वास्यमेतत्.