पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८५

पुटमेतत् सुपुष्टितम्
८१
उत्तरमेघः ।

आननस्पर्शे त्वन्मुखसंपर्के लोभाद्गार्ध्यात् । अधरपानलोभादित्यर्थः । शब्दाख्येयं शब्देन रवेणाख्येमुच्चैर्वाच्यमपि यत्तत् । वचनमपीति शेषः । कर्णे कथयितुं लोलो लालसोऽभूत्किल ॥ "लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च" इति यादवः ॥ श्रवणविषयं कर्णपथमतिक्रान्तः तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्द्रष्टुं श्रोतुं च न शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि सुप्तिङन्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम् । "पदं शब्दे च वाक्ये च" इति विश्वः ॥ इदं वक्ष्यमाणं "श्यामास्वङ्गम्" इत्यादिकं मन्मुखेन स एव ब्रूत इत्यर्थः ॥

 सादृश्यप्रतिस्वप्नदशनतदङ्गस्पर्शाख्यानि चत्वारि विरहिणां विनोदस्थानानि । तथा चोक्तं गुणपताकायाम्-"वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्र कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि गदितः" इति । तत्र सदृशवस्तुदर्शनमाह--

 श्यामास्वङ्गं चकितहरिणीप्रेक्ष[१]णे दृ[२]ष्टिपातं
  [३]क्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्
 उत्पश्यामि प्रतनुषु नदीवीथिषु भ्रूविलासा-
  न्हंतैक[४]स्मिन्क्वचिदपि न ते च[५]ण्डि सादृश्यमस्ति ॥ ४१ ॥

 श्यामास्विति ॥ श्यामासु प्रियङ्गुलतासु ॥ "श्यामा तु महिलाव्हया । लता गोवन्दनी गुन्द्रा प्रियङगुः फलिनी फली" इत्यमरः ॥ अङ्गं शरीरमुत्पश्यापि । सौकुमार्यादिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकितहरिणीनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्त्रछायां मुखकान्तिं तथा शिखिनां बर्हिणां बर्हभारेषु बर्हसमूहेषु केशान् । प्रतनुष स्वल्पासु नदीनां वीचिषु ॥ अत्र वीचीनां विशेषणोपादानेनानुक्तगुणग्रहो दोषः । भ्रूसाम्यनिर्वाहाय महत्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं रसरत्नाकरे-- 'ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशेषणादिदोषस्य नास्त्य


 (४१) हे मानिनि । प्रत्येकस्मिन् श्यामादावङ्गादेर्दर्शनेऽपि कुत्राप्येकस्मिन् सादृश्यस्याऽभावात्खेदो जायत इति भावः ।


  1. प्रेक्षिते.
  2. दृष्टिपातान्.
  3. वक्त्रच्छायम्; गण्डच्छायम्.
  4. एकस्थम्
  5. भीरु.