पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९

एतत् पृष्ठम् परिष्कृतम् अस्ति
पूर्वमेघः ।

 प्रत्यासन इति ॥ स यक्षः। यश्चिरं दध्यौ स इत्यर्थः ॥ नभसि श्रावणे ॥ "नभः खं श्रावणो नभाः" इत्यमरः ॥ प्रप्यासन्न आषाढस्यानन्तरं संनिकृष्टे । प्राप्ते सतीत्यर्थः । दयिताजीवितालम्बनार्थी सन् । वर्षाकालस्य विरहदुःखजनकत्वात् "उत्पन्नानर्थप्रतीकारादनर्थोत्पत्तिप्रतिबन्ध एव वरम्” इति न्यायेन प्रागेव प्रियाप्राणधारणोपायं चिकीर्षुरित्यर्थः । जीवनस्योदकस्य मूतः पटबन्धो वस्त्रबन्धो जीमूतः ॥ पृषोदरादित्वात्साधुः । “मूतः स्यात्पटबन्धेऽपि" इति रुद्रः ॥ तेन जीमूतेन जलधरेण प्रयोज्येन स्वकुशलमयीं स्वक्षेमप्रधानां प्रवृत्तिं वार्ताम् ॥ "वार्ता प्रवृत्तिवृत्तान्तः” इत्यमरः ॥ हारयिष्यन्प्रापयिष्यन् । " लुट् शेषे च ” इति चकारात्क्रियार्थक्रियायपदाल्लृट्प्रत्ययः । जीवनार्थं कर्म जीवनप्रदेनैव कर्तव्यमिति भावः ॥ "हृक्रोरन्यतरस्याम्" इति कर्मसंज्ञाया विकल्पात्पक्षे कर्तरि तृतीया ॥ प्रत्यग्रैरभिनवैः कुटजकुसुमैर्गिरिमल्लिकाभिः ॥ "कुटजो गिरिमल्लिका' इति हलायुधः ॥ कल्पितार्धाय कल्पितोऽनुष्ठितोऽर्धः पूजाविधिर्यस्मै तस्मै ॥ “मूल्ये पूजाविधावर्घः” इत्यमरः तस्मै जीमूताय ॥ " क्रियाग्रहणमपि कर्तव्यम्" इति सम्प्रदानत्वाचतुर्थी ॥ प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मिन्कर्मणि तत्प्रीतिप्रमुखवचनं यथा तथा । शोभनमागतं स्वागतं स्वागतवचनं प्रीतः सन्व्याजहार । कुश[]लागमनं पप्रच्छेत्यर्थः ॥ नाथेन त्वत्र “ प्रत्यासन्ने मनसि इति साधीयान्पाठः कल्पितः । प्रत्यासन्ने प्रकृतिमापन्ने सतीत्यर्थः । यस्तु तेनैव पूर्वपाठविरोधः प्रदर्शितः सोऽस्माभिः “आषाढस्य प्रथमदिवसे” इत्येतत्पाठविकल्पसमाधानेनैव समाधाय परिहृतः ॥

 ननु चेतनसाध्यमर्थं कथमचेतनेन कारयितुं प्रवृत्त इत्यपेक्षायां कविः समाधत्ते-

 धूमज्योतिः सलिलमरुतां संनिपातः क मेघः
  सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
 इत्योत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
  कामार्ता हि प्रकृति[]कृपणाश्चेतनाचेतनेषु ॥५॥


 (५) कामिनां चेतनाचेतनभेदानवगमादसौ यक्षो मेघमयाचतेति भावः ।


  1. अत्र ‘संप्रदानत्वात्कुशलप्रश्नो नाभिमुखीचकारेत्यर्थः' इति पाठान्तरम् ।
  2. प्रणय।