पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
मेघदूतम् ।

त्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम्" इत्यमरः ॥ मयि विषयेऽविश्वासिनी मरणशङ्कनी मा भूर्न भव ॥ भवतेर्लुङ् । 'न माङ्योगे" इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षात्पूर्वस्नेहनिवृत्तिराशङक्येत्याह-स्नेहानिति । किमपि किंचिन्निमित्तम् । न विद्यत इति शेषः । स्नेहान्प्रीतिर्विरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनो विनश्वरानाहुः । तत्तथा न भवतीत्यभिप्रायः किंतु ते स्नेहा अभोगाद्विरहे भोगाभावाद्धेतोः । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते ॥ इष्टे वस्तुनि विषये । उपचितो रसः स्वादो येषु त उपचितरसाः सन्तः । प्रवृद्धतृष्णा इत्यर्थः ।। "रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः" इति विश्वः ।। प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः ।। स्नेहप्रेम्णोरवस्थाभेदाद्भेदः। तदुक्तम् - "आलोकनाभिलाषौ रागस्नेहौ ततः प्रेमा । रतिशृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥” इति । तदेव स्फुटीकृतं रसाकरे- "प्रेक्षा दिदृक्षा रम्येषु तच्चिन्ता त्वभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणक्रिया ॥ तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संयोगः सप्तधा क्रमात् ॥” इति ।।

 इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते-

 आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
  शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
 साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
  प्रात: कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥५०॥

 आश्वास्येति ॥ प्रथमविरहेणोदग्रशोकां तीव्रदुःखां ते सखीमेवं पूर्वोक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य त्र्यम्बकस्य वृषेण वृषभेणोत्खाता अवदारिताः कूटाः शिखराणि यस्य तस्मात् ॥ "कूटोऽस्त्री शिखरं शृङ्गम्" इत्यमरः ॥ शैलात्कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः सन्साभिज्ञानं सलक्षणं यथा तथा प्रहितं प्रेषितं कुशलं येषु तैस्तस्यास्त्वत्सख्या


 (५०) हे मेघ ! विरहातिपीडितां प्रियामुपजीव्य कैलासान्निवृत्तस्त्वं तत्सन्देशवाग्भिमेवोपजीवनं स्थापयेति भावः ।

१ एनाम्. २ विरहादुग्रशोकाम्. विरहेणार्द्रशोकाम्. ३ मे; स्वाम्. ४

अस्मात्. ५ साभिज्ञानम्. ६ त्वद्वचोभिः,