१०
अनयैव निमित्तगत्या त्वमविघ्नगतिर्मम जायां चाव्यापन्नामेवावश्यं द्रक्ष्यसीत्यभिप्रायेणाह –-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशप्राणमप्यङ्गनानां
तां चावश्यमिति । दिवसगणनातत्पराम्, अनेन मद्विरहे सा न विपन्ना स्याद् विरहावधेर्नियतत्वादित्युक्तम् । सा कामं जीवतु, तस्याः शीलं यदि खण्डितं स्यात् तव प्रार्थना व्यर्था भविष्यतीत्याशङ्क्याह- एकपत्नीम् । एका असपत्नीका पत्नी यज्ञसंयोगार्हा वेत्येकपत्नीति कर्मधारयः । असपत्नीकत्वात् पत्नीत्वाञ्च तस्याः शीलखण्डनं न भवतीत्यभिप्रायः । तस्मादव्यापन्नाम् । अविहतगतिः त्वमविघ्नितगतिः । भ्रातृजायाम् अनेन परस्त्रीदर्शननिषेधस्तवात्र न स्यात् त्वद्भ्रातृजायात्वादित्युक्तम् । प्रकृत्या सुकुमारहृदयाः खलु स्त्रियः । ततः कथमेतावन्तं कालं दिवसगणनां कृत्वा जीवतीत्याशङ्क्याह-- आशेत्यादि । आशावन्धः प्रियतमश्चेत् जीवति कालान्तरे तत्समागमो भविष्यतीत्यभिलाषः । आशाबन्धशब्देन निगलसमाधिर्विवक्षितः । रुणद्धीति, निगलकार्यस्य वक्ष्यमाणत्वात् । कुसुमसदृशप्राणं कुसुमसदृशवलम् ।
इति केशवस्वामी । कुसुमसदृशं प्रायशो ह्यङ्गनानामिति केचित् पठन्ति । सद्यःपातप्रणयीति पाठः । विरहसमये सद्यः पातप्रार्थनाशीलम् ॥
मार्गे तव सहायाः संभविष्यन्तीत्याह –
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः
आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः
११
कर्तुमिति । चकारः सहाया इत्यनेन सम्बध्यते । उत्सिलिन्ध्रा मुद्गतकन्दलिकाम् । अत एवावन्ध्याम् । अनेन पदेन गर्जितस्य वार्षिकत्वमुक्तमित्यनुसन्धेयम् । श्रवणसुभगं राजहंसानां श्रवणसुभगमित्यर्थः । परुषं मेघगर्जितमिति प्रसिद्धम् । वक्ष्यति च – ‘यस्यास्तोये कृतवसतय’ इत्यादिकम् । तस्मात् कथं हंसानां श्रवणसुभगमित्युक्तम् । सत्यम् । इदं परिगृहीततटाकादिपरित्यागात् किञ्चित्परुषं, स्वेषां निवासस्थानभूतस्य मानसतटाकस्य गमनहेतुत्वादतीव प्रियं च । उक्तं च-- ‘क्वचित् खगानां प्रियमानसानाम्’ इति । ननु च हंसाः प्रियमानसाश्चेत् कुतो हेतोस्तद् विहाय देशान्तरे परिभ्रमन्ति । उच्यते । हिमालयैकदेशस्थं मानसं हिमदूषितसलिलादिकत्वादनुपभोग्यं भवति । ततस्तेषां देशान्तरगमनं भवति । वर्षसमये तु वर्षजलविरलितहिमत्वात् तस्य हंसनिवासयोग्यत्वमस्ति । नित्यप्रसन्नत्वाद् देशान्तरतटाकादिवत् कालुष्यं न भवतीत्युर्दाच्या उपदिशन्तीत्यनुसन्धेयम् । मानसोत्काः मानसोत्सुकाः, इदं च प्रियमानसत्वलिङ्गम् । अनेन पदेन लोके प्रवत्स्यतः पुरुषस्य सहायाह्वानसमाधिर्विवक्षित इत्यनुसन्धेयम् । बिसकिसलयच्छेदपाथेयवन्तः । पाथेयं पथि साधु भोज्यं वस्तु । ’पथ्यतिथिवसतिस्वपतेर्ढञ्’ (४.४.१०४) इति ढञ्प्रत्ययः । बिसकिसलयच्छेदपाथेया इत्युक्तेऽपि विवक्षितसिद्धिर्थद्यपि भवति, तथापि स्पष्टार्थं मतुप्प्रत्ययः कृत इत्यनुसन्धेयम् । नभसि, अनेन सहायवद्भिरेव गन्तव्यः शून्यः पन्थाः सूचितः । राजहंसा लोहितचञ्चुचरणा हंसाः ।
इत्यमरः ॥ ११ ॥
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवता यस्य संयोगमेत्य
आपृच्छस्वेति । आपृच्छस्व सभाजयस्व सम्मानयेत्यर्थः । ‘आङि नुप्रच्छयोरुपसङ्ख्यानम्’ (वा० १. ३. २१) इत्यात्मनेप-