पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/11

पुटमेतत् सुपुष्टितम्

१२

मेघसन्देशे सव्याख्ये

दम् । ‘आनन्दनसभाजने । आप्रच्छनमि’त्यमरः । अत्र गच्छामीति प्रश्नवचनेन पूजनं विवक्षितम् । न केवलं भवतः सख्यादेवास्य पर्वतस्य सभाजनं कार्यं, विशिष्टपुरुषपरिग्रहाच्चेत्याह-- वन्द्यैः पुंसामिति । अङ्कितं कृतसञ्चारम् । मेखलासु सानुषु । अस्य मया सह सख्यमस्तीति कुतोऽवगम्यत इत्यपेक्षायामाह – काले काले इति । प्रतिवर्षासमयं सुहृत्सङ्गमकालश्च विवक्षितः । स्नेहव्यक्तिः प्रेमाविष्करणम् । बाष्पमूष्माणमश्रुजलं च । ‘बाष्पोऽश्रुण्यम्बुधूमे च’ इति यादवः । उष्णं, चिरविरहजत्वादुष्णमित्यर्थः । भवता संयोगमेत्य चिरविरहजमुष्णं बाष्पं मुञ्चतो यस्य स्नेहव्यक्तिर्भवतीत्यन्वयः । अत्र कश्चित् सुहृद् दूरादागतं सुहृदं दृष्ट्वा चिरविरहोष्णं बाष्पमुन्मुच्य सौहृदमाविष्करोतीत्यर्थः खण्डश्लेषालङ्कारेण प्रतीयत इत्यनुसन्धेयम् ॥१२॥

मार्गं मत्तः शृणु कथयतस्त्वत्प्रयाणानुरूपं

सन्देशं मे तदनु जलद ! श्रोष्यसि श्राव्यबन्धम् ।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र

क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥

मार्गमिति । मार्ग मत्तः श्रृणु कथयत इति पाठः । मत्त इति पञ्चमी । मार्गं तावत् कथयत इति पाठे कथयत इत्यस्य विशेष्यपदं नास्तीत्यनुसन्धेयम् । सन्देशं ‘श्यामास्वङ्गमि’त्यादिना वक्ष्यमाणम् । श्राव्यबन्धम् । अवश्यं श्रोतव्यरचनम् । श्रृणोतेः ‘ओरावश्यके’ (३.१.१२५) इति ण्यत्प्रत्ययः । खिन्नः खिन्नः यदा यदा खिन्नः तदा तदा शिखरिषु पदं न्यस्य गमिष्यसीत्यर्थः । खेदश्च शारीरः । यत्र यस्मिन् मार्गे । क्षीणः क्षीण इत्यसमस्तम् । क्षयश्चाभ्यन्तरो विवक्षितः । परिलघु गौरवरहितम् । स्रोतसां, पर्वतोद्भूतानामिति शेषः । परिलघुग्रहणं स्रोतोग्रहणं च पानीयस्य पथ्यत्वाय । अत्र बाहटे –-

"उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ।
हिमवन्मलयोद्भूताः पथ्याः"

इति ॥ १३ ॥

पूर्वसन्देशः ।

१३

अद्रेः किंस्विद् वहति पवनः शृङ्गयित्युन्मुखीभि-

र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं

दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥

अद्रेरिति । किंस्विदिति वितर्के । अत्रेदमनुसन्धेयं-- श्रीपर्वतरामगिर्यादयः सिद्धानां निवासस्थानमिति प्रसिद्धम् । अत एव रामगिरिवर्तिनीनां सिद्धाङ्गनानामौन्मुख्यं सम्भवति । खेचरत्वात् तस्य । वक्ष्यति – ‘सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्ग’ इति स्थानाद्, अनेनास्थानं च विवक्षितम् । सरसनिचुलाद् आर्द्रवानीरवतः । सरसनिचुलादित्यत्र निचुलपदेन निचुलाभिधानः कश्चन कविर्विवक्षितः । यस्य सूक्तिः सुभाषिते श्रूयते -–

"संसर्गजा दोषगुणा भवन्तीत्येतन्मृषा येन जलाश्रयोऽपि ।
स्थित्वानुकूलं निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात् ॥"

इति । अनया निचुलोपवर्णनया तस्य कवेर्निचुलाभिधानत्वमासीदित्यनुसन्धेयम् । स तु निचुलकविरास्थानगतः कालिदासस्य सूक्तीः सम्भावयति । तस्मात् सर(स)पदेन तं कविं स्तौति । खमुत्पत । अनेन स्वकाव्यस्योच्छ्रितस्थानविजृम्भणं च विवक्षितम् । अयमभिप्रायः -– किमन्यैरसूयुभिः, आस्थानगतो रासिकः स निचुल एव तवोच्छ्रायं करोतीति दुर्जनभीषणभीतं मेघसन्देशाभिधानं स्वमबन्धं मेघच्छद्मना समाश्वासयति । तव काव्यं के नाम दूषयन्तीत्यपेक्षां हृदि कृत्वाह – दिङ्नागानां दिग्गजानाम् । अनेन दिङ्नागाचार्यश्च विवक्षितः । पथि अनेन बिजृम्भणावकाश उत्पतनमार्गश्च विवक्षितः । परिहरन् वर्जयन् स्थूलहस्तावलेपान् उत्पतन्तं मेघमालोक्य सजातीयभ्रमेण स्थूलहस्तावताडानानि सम्भावितानि । अनेन प्रबन्धदूषणसमये स्थूलहस्ताभिनयाश्च विवक्षिताः । अयमभिप्रायः –दिङ्नाग इति कोऽप्याचार्यः कालिदासप्रबन्धानन्यत्रोक्तोऽयमर्थ इति स्थूलहस्ताभिनयैर्दूषयति । तमाचार्यं स्वप्रबन्धस्यापूर्वार्थाभिधायित्वमाश्रित्य मेघोपदेशव्याजेन कविरूपालभत इति ॥ १४ ॥