पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/22

पुटमेतत् सुपुष्टितम्

इति । अथानन्तरम् । छायया गाहमानः, अनेन तस्य पुण्यदेशत्वात् स्वरूपेणाक्रमणं न युक्तमिति सूचितम् । क्षत्रप्रधनपिशुनम्, अद्यापि शिरःकपालादिमत्तया पाण्डवानां क्षत्रियाणां युद्धसूचकम् । कौरवं कुरूणां संबन्धि । राजन्यानां मूर्घाभिषिक्तानाम् । गाण्डीवधन्वा अर्जुनः । ‘धनुषश्च’ (५.४.१३२) इत्यनङादेशः । मुखानि, मुखग्रहणमनेककर्माश्रयत्वात् कृतम् ॥४८॥

यद्यपि प्रकृत्या पुण्यं कुरुक्षेत्रं, तथापि यस्मिन् प्रदेशे युद्धमासीत् तं नरशिरःकपालादिदूषितं प्राप्य कथमशुद्धो भविष्यामीत्याशङ्क्याह -

हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां

बन्धुस्नेहात् समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासामभिगममपां सौम्य ! सारस्वतीना-

मन्तःशुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः॥ ४९ ॥

हित्वेति । अभिमतरसाम् अभिमतरसत्वं रेवतीलोचनप्रति बिम्बितां गत्वा । बन्धुस्नेहाद् धर्मपुत्रादिषु दुर्योधनादिषु च तुल्यत्वेन वर्तमानादित्यर्थः । समरविमुखस्त्यक्तसमरः । लाङ्गली, लाङ्गलमस्यास्तीति लाङ्गली बलभद्रः । अनेन सायुधोऽपि बन्धुस्नेहात् समरविमुख इत्यवगम्यते । याः सिषेव इति अपो भक्षयित्वा तपश्चचारेत्यर्थः । अभिगममभिमुखत्वेन गमनम् । अन्तः शुद्धस्त्वमसि भवितेति । असीति मध्यमप्रतिरूपकमव्ययमिदम् । तथा माघकाव्ये – "स्वयमेवशन्तनुतनूज! यमसि गण्मर्घ्ययमभ्यधाः"(स० १५. श्लो० २०) इति । भविता, तृजन्तमिदम् । अन्तः शुद्धो भवितासि अन्तः शुद्धो भविष्यसीत्यर्थः । पापकार्ष्ण्याभ्यां मुक्तद्रव्यवाचिनः शुद्धशब्दस्य श्रवणात् तव कृष्णवर्णलोपो न शङ्कनीय इत्याशङ्क्याह- वर्णमात्रेण कृष्ण इति । वर्णमात्रेण वर्णेनैव । तव चारुत्वहेतोः कृष्णवर्णस्य विपर्ययो न भवतीत्यभिप्रायः ॥४९॥ –-

पूर्वसन्देशः

३५


तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां

जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीं वक्त्रेभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता॥५०॥

तस्मादिति । अनुकनखलम् । कनखल इति गङ्गाद्वारे कोऽपि पर्वतः । तथा महाभारते –

"गङ्गाद्वारं युधिष्टिर! ।

पुण्यं तत् ख्यायते राजन्! ब्रह्मर्षिगणसेवितम् ॥
सनत्कुमरः कौरव्य! पुण्यः कनखलस्तथा ।
पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ॥"

इति । शैलराजावतीर्णां हिमवतः प्रवृत्तां हिमवतः प्रसूतां च । सगरतनयस्वर्गसोपानपङ्क्तिः, सगरपुत्राणां कथा प्रसिद्धा । गौरीं बक्रेभ्रुकुटिरचनामिति पाठः । वक्रेभ्रुकुटिरचनां वक्रे भ्रुकुटिरचना यस्याः सा तथोक्ता । ‘अमूर्धमस्तकात्’ (६.३.१२) इति सप्तम्या अलुक् । भ्रुकुटिर्भ्रूकौटिल्यं, कोपोल्लसितभ्रूभङ्गामित्यर्थः । केशग्रहणम्, अनेन केशेष्ववस्थानं बलात्कारेण केशग्रहणं च विवक्षितम् । इन्दुलग्नोर्मिहस्ता अनेन केशग्रहणे मालत्यादिकृतशेखरलग्नहस्तत्वं च ध्वन्यते । अयमभिप्रायः – आवर्योर्द्वयोरपि शैलराजप्रभवत्वे साधारणे त्वं शम्भोरर्धहरासि । अहं तु तस्य मूर्धन्यवस्थानं कृतवतीति केशग्रहणदर्शनकुपितां गौरीं फेनव्याजेन हसन्तीव या विभातीत्यर्थः ॥५०॥

तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी

त्वं चेदच्छ्स्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसिच्छाययासौ

स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा॥५२॥

तस्या इति । व्योम्नि पश्चार्धलम्बी आकाशे पृष्ठभागेन लम्बमानः । लोके हि पश्चादुत्तरशब्दौ पर्यायौ भवतः । अत्र पश्चार्धशब्देन्