पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/23

पुटमेतत् सुपुष्टितम्

किमुत्तरार्धं नेष्यते । उक्तंच – ‘तं वाहनादवनतोत्तरकायम्’ (रघु० ९.६०) इति । पश्चार्धशब्दस्य मृगादिषु पृष्ठभागे एव प्रयोगदर्शनात् । तथा शाकुन्तले – ‘पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम्’ इति । तर्कयेश्चिन्तयेः । व्योम्नि तिर्थक् पश्चार्धलम्बी तस्यास्तदम्भः पातुं तर्कयेश्चेदित्यर्थः । संसर्पन्त्या अवगाहमानाया । संपदि ससर्पन्त्येत्वन्वयः । छायया प्रतिबिम्बेन अस्थानोपगतयमुनासङ्गमा गङ्गायमुनयोः प्रयागाख्य एव तीर्थे सङ्गमो भवति । ततोऽन्यत् सर्वमस्थानम् । विशिष्टयोः समागमसमाधिरत्र ध्वन्यते ॥५१॥

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां

तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयेन तस्य शृङ्गे निषण्णः

शुभ्रां शोभां त्रिनयनवृषोत्खातपङ्कोपमेयाम्॥ ५२ ॥

आसीनानामिति । नाभिगन्धैर्मृगमदगन्धैः । ‘मृगनाभिर्मृगमदः’ इत्यमरः । मृगाणामित्युक्तत्वाद् मृगनाभिगन्धैरित्यनुक्तम् । तस्या एव प्रभवं गङ्गाया एवोत्पत्तिस्थानम् । वक्ष्यसि, वहतेरिदं रूपं, वोढा भविष्यसि । शुभ्रां दीप्ताम् । ‘शुभ्रः स्याद् दीप्तशुक्लयोः’ इत्यमरः । पङ्कोपमानादुपेक्षितः शुक्लवर्णः (शुभ्र ? शोभां) त्रिनयनवृषोत्खातपङ्कोपमेयामिति पाठः । कामपि वधूं भुक्त्वा तस्या एव जन्मगृहे गन्धादिभिः श्रममपहरतो जामातुः कान्तिरत्र ध्वन्यते ॥५२॥

तं चेद् वायौ सरति सरलस्कन्धसङ्घट्टजन्मा

बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै-

रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम्॥५३॥

तमिति । सरलस्कन्धसंघट्टजन्मा । सरलो वृक्षविशेषः । स्कन्धशब्देन स्कन्धशाखा विवक्षिता । हिमजलस्वरूपत्वत् तस्य हिमवतः –-

पूर्वसन्देशः

३७


किमग्निना व्यसनमित्यपेक्षायामाह – उल्काक्षपितचमरीवालभार इति । दवाग्निः वनवह्निः । वायौ सरति सति सरलस्कन्धसंघट्टजन्मा दवाग्निरुल्काक्षपितचमरीवालभारो भूत्वा तं बाघेत चेदित्यर्थः । वारिधारासहस्रैः वारिधाराणां सहस्रसंख्याभिः । अत्र सहस्रशब्दः संख्यावचनोऽपि क्रियासमन्वयसामर्थ्याभावात् संख्येये पर्यवस्यतीत्येव वोद्धव्यं, बारिधाराभिरित्यर्थः ॥५३॥

ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्

मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्

के वा न स्युः परिभवफला निष्फलारम्भयत्नाः॥

य इति । संरम्भोत्पतनरभसा इति, संरम्भः कोपः, कोपोत्पतनवेगिन इत्यर्थः । स्वाङ्गभङ्गाय स्वशरीरभङ्गाय । सुक्ताध्वानं शरभाणां मार्गमुक्त्वा दूरगामिनम् । मुक्तमार्गत्वात् त्वयि शरभाणां लङ्घनं न संभवति, तेषां शरीरभङ्ग एव भविष्यतीत्यभिप्रायः । तुमुलकरकावृष्टिपातावकीर्णान् । करको घनोपलः । ‘घनोपलस्तु करके’ इति यादवः। करकाणाम् आ(वृष्टिः?)समन्ताद् वृष्टिपातः । परिभवफलाः तिरस्कारः फलं येषाम् । निष्फलारम्भयत्नाः निष्फला आरम्भयत्नाश्चेति कर्मधारयः । आरम्भयत्नाः कर्मव्यापाराः । आरम्भयत्नानां नैष्फल्यं मेघाभिलङ्घनस्याभावात् । यद्वा निष्फला इति पदच्छेदः । निष्फला अफलाः । रम्भयत्नाः संरम्भयत्नाः । ‘रम्भस्तु संरम्भे स्त्री मोचाप्सरसोरि’ति केशवः । के वा निष्फलाः संरम्भयत्नाः परिभवफला न स्युरित्यर्थः ॥५४॥

तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः

शश्वत् सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः

कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः॥५५॥