पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/24

पुटमेतत् सुपुष्टितम्

तत्रेति । हिमवतः कस्यांचिच्छिलायां रुद्रपादन्यासो विद्यत इति प्रसिद्धम् । शश्वत् सिद्धैरुपहृतबलिं सर्वदा सिद्धैरु(पहृतो) पहारम् ।

"बलिः पूजोपहारे दैत्यभेदे करेपि च"

इति यादवः । अनेन ज्ञानोपायः सूचितः । परीयाः परित ईयाः प्रदक्षिणं कुर्वीथा इत्यर्थः । करणविगमात्, करणं शरीरम् ।

"करणं साधकतमकक्षेत्रगात्रेन्द्रियेष्वपि"

इति यादवः । शरीरपरित्यागादूर्ध्वमित्यर्थः । कल्पिष्यन्ते स्थिरगणपदप्राप्तय इति । ‘नमःस्वस्तिस्वाहास्वधालम् –’ (२.३. १६) इति सूत्रेत्वलंशब्दस्यार्थग्रहणात् पर्याप्तिवाचिनः क्लृपिधातोर्योगे स्थिरगण्पदप्राप्तय इति चतुर्थीनिर्देशः ॥५५॥

शब्दायन्ते मधुरसनिलैः कीचकाः पूर्यमाणाः

संसक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः ।
निर्ह्रादी ते मुरव इव चेत् कन्दरेषु ध्वनिः स्यात्
सङ्गीतार्थो ननु पशुपतेर्नृत्यतस्तत्र पूर्णः ॥५६॥

शब्देति । ‘शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे’ (३.१.१७) इति क्यङ् । संसक्ताभिः भक्तिमतीभिः [१] । शब्दायन्ते गीयते इति च वर्तमाननिर्देशः सर्वदा संभवात् कृतः । निर्ह्रादी ते मुरव इव चेत् कन्दरेषु ध्वनिः स्यादिति ।

"निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कलः"

इति यादवः । पर्यायत्वेन यद्यपि चरन्ति तथाप्यत्रानुनादो निर्ह्रादत्वेन विवक्षितः । मुरव इति सप्तम्यन्तः । मुरवे निर्ह्रादी ध्वनिरिव कन्दरेषु ध्वनिस्ते स्याच्चेदित्यर्थः । सङ्गीतार्थः सङ्गीतस्य हेतुः । सङ्गीतं नाम प्रेक्षणीयनृत्तगीतवाद्यात्मकं त्रयम् । ननु सङ्गीतशब्दस्य नृत्तादित्रयवाचकत्वं नास्ति, नाटकेषु सङ्गीतकमनुतिष्ठामीति दर्शनात् । सङ्गीतशब्दस्तु गानमात्रे प्रयुज्यते । तथा कुमारसंभवे – ‘वनान्तसङ्गीतसखीररोदयत्’ इति । वक्ष्यति च- ‘सङ्गीताय प्रहतमुरवा’ इति । –-

पूर्वसन्देशः

३९


कथमत्र सङ्गीतशब्दस्य नृत्तादित्रयवाचकत्वमस्तीति व्याख्यायते इति । उच्यते । सङ्गीतशब्दस्यैव नृत्तादित्रयवाचकत्वं यादवेनोक्तं –

<centre>"नृत्तं गीतं वाद्यमिति नाट्यं तौर्यत्रिकं त्रिकम् । सङ्गीतं प्रेक्षणार्थेऽस्मिन्"

इति । पशुपतेर्नृत्यतस्तत्र पूर्ण इति पाठः । पशुपतेस्तत्र भावी (समग्रः) इति पाठे तु नृत्तानुपादानात् सङ्गीतार्थः पूर्णो न स्यात् । अन्ये तु सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समस्त इति पठन्ति । पादन्यासमन्तरेण स्वरुपेणापि पशुपतिस्तत्र वसतीति प्रसिद्धम् ॥५६॥

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्

हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिविमथनाभ्युद्यतस्येव विष्णोः॥५७॥

प्रालेयेति । तांस्तान् विशेषान् ‘तस्माद् गच्छेरनुकनखलम्’ इत्युक्तान् विशेषान् । हंसद्वारं हंसानां मानसाख्यसरोगमनद्वारम् । भृगुपतियशोवर्त्म । अत्रेदमनुसन्धेयं – स्कन्देन कौञ्चारातिना स्पर्धमानः परशुरामः कौञ्चाचलं शरेण सरन्ध्रमकरोत् । तेन तस्य महती कीर्तिरासीत् । तस्माद् भृगुपतियशोवर्त्मेत्युक्तम् । यथाह मुरारिः-

"यद्वाणव्रणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्छला- दद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥"

इति । अनुसरेः उद्दिश्य गच्छेः । रन्ध्रस्य तिरश्चीनोर्ध्वत्वात् तिर्यगायामशोभीत्युक्तम् । बलिविमथनाभ्युद्यतस्येव विष्णोः इति । बलिभङ्गोद्यतस्य । इदं व्याप्तिवावकत्वात् तत्कालोचितं विशेषणम् ॥५७॥

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः

कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं

राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः॥५८॥

गत्वेति । तेन रन्ध्रेणोर्ध्वं गत्वेत्यर्थः । दशमुखभुजोच्छ्वासि-

  1. १. ’र’ क. पाठः