पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/29

पुटमेतत् सुपुष्टितम्

इत्यलङ्कारे । भयात् त्वामपि प्रेक्ष्य काम इति पाठः । विरहिणां प्रोत्साहकारिणं भवन्तं प्रेक्ष्यापीत्यर्थः । मयि तं देशं प्रविष्टे मदनव्यापारः कथं भविष्यतीत्याशङ्क्याह- सभ्रूभङ्गप्रहितनयनैरिति । तस्यारम्भः तस्य प्रवृत्तिः । सिद्धः सिद्धो भविष्यतीत्यर्थः । त्वामपि प्रेक्ष्येत्यनेन मेघसंबन्ध उक्तः । मन्मथः षट्पदज्यमिति पाठे पूर्वश्लोकेष्विव मेघसांबन्धो न स्यात् ॥७॥

[१][वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं

पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान्
लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
मेकः सूते सकलमबलामण्डनं कल्पवृक्षः॥]
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं त्वदमरधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे

हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः॥ ८ ॥

तत्रेति । तस्यामलकायाम् । इतः परं पञ्चसु श्लोकेषु ययाकयाचन विधया मेघसंबन्धमुक्त्वा स्वगृहस्य लक्षणमाह । वक्ष्यति च ‘एभिः साघो! हृदयनिहितैर्लक्षणैर्लक्षयेथाः’ इति । घनपतिगृहानुत्तरेणेति पाठः । घनपतिगृहान् वैश्रवणगृहान् । ‘गृहाः पुंसि च भूम्न्येव’ इत्यमरः । उत्तरेणोत्तरतः समीपे । ‘एनबन्यतरस्यामदूरेऽपञ्चम्याः’ (५.३.३५) इत्येनपप्रत्ययः । ‘एनपा द्वितीया’ (२.३.३१) इति द्वितीया । कृतकतनयः कृत्रिमपुत्रकः । बालमन्दारवृक्षः बालकल्पवृक्षः । त्वदमरघनुश्चारुणा तोरणेनेति मेघसंबन्ध उक्तः ॥ ८ ॥

वापी चास्मिन् मरतकशिलाबद्धसोपानमार्गा

हैमै स्फीता कमलमुकुलैर्दीर्घवैदूर्यनालैः ।
–-




उत्तरसन्देशः

४९




यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं

नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥

वापीति । अस्मिन् अगारे । स्फीता पुष्टा । यस्यास्तोये इति, यस्यां कृतवसतय इति वक्तव्ये तोयग्रहणं वर्षाकालेऽपि तोयस्य प्रसादातिशयसूचकम् । आध्यास्यन्तीति पाठः । आध्यानमुत्कण्ठा । ‘आध्यानमुत्कण्ठोत्कलिके समे’ इत्यमरः । त्वामपि प्रेक्ष्येत्यनेन मेघसंबन्ध उक्तः ॥९॥


तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मद्गेहिन्याः प्रिय इति सखे ! चेतसा कातरेण

प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि॥ १० ॥

तस्या इति । पेशलैः चारुभिः । ‘चारौ दक्षे च पेशलः’ इत्यमरः । मद्गेहिन्याः प्रिय इति,शतिशब्दो हेतौ । तमेव क्रीडाशैलमेव । उपान्तस्फुरिततडितं त्वां प्रेक्ष्य कातरेण चेतसा तमेव स्मरामि इत्यन्वयः । अत्र मेघसंबन्धः स्पष्टः ॥१०॥

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः

प्रत्यासन्नौ कुरुवकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी

काङ्क्षत्यन्यो वदनमदिरां दोहदच्छ्द्मनास्याः॥

रक्तेति केसरो वकुलः । कुरवकवृतेः कुरवक एव वृतिरावरणं यस्य । माघवीमण्डपस्य, माधवी अतिमुक्तः, माधवीवेष्टितमण्डपस्येत्यर्थः । तव सख्या इति मेघसंबन्ध उक्तः । सह मया वामपादाभिलाषीति वाक्यच्छेदः । दोहलच्छद्मना, दोहलं नाम फुसुमाद्युत्पादकं

  1. * प्रक्षिप्तत्वधियायं श्लोको न व्याख्यातोऽन्यव्याख्यातोऽपि ।