पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/31

पुटमेतत् सुपुष्टितम्

इति ।

"पक्वडाडिमबीजाभं माणिक्यं शिखरं विदुः ।
" ।

मध्येक्षामा, ‘अमूर्धमस्तकात् –’ (६.३.१२) इत्यलुक् । क्षामा क्षीणा []। चकितहरिणीप्रेक्षिणीति पाठः । ‘कर्तर्युपमाने’ (३.२.७९) इति णिनिः । तत्र तस्मिन् भवने । स्याद्, आख्यातप्रतिरूपमव्ययमिदं यद्यर्थे वर्तते । तथा श्रीरामायणे प्रयोगश्च – "पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात्" इति । युवतिविषये युवतिपक्षे, युवतिगोचर इत्यर्थः । आद्या प्रथमा । धातुः प्रथमाया युवतिसृष्टेरादरेण[] निर्मितत्वात् तद्रामणीयकमस्तीति भावः । एवंरुपा तस्मिन् भवने यद्यस्ति[], तां जानीया इत्युत्तरत्र सम्बन्धः ॥१५॥


तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला

जाता मन्ये शिशिरमथिता पद्मिनीवान्यरूपा ॥

तामिति । परिमितकथां स्वभावतः स्वल्पभाषिणीम् दूरीभूते दूरस्थे । सहचरे चक्रवाकीमिवैकामिति वाक्यच्छेदः । सहचरे चक्रवाके दूरीभूत इत्यर्थः । अस्यार्थस्य मूलं "सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना" । इति श्रीरामायणवचनम् । एकामसहायाम् । पूर्वोक्तानां लक्षणानामन्यथाभावमाशङ्क्याह – गाढोत्कण्ठेति । शिशिरमथिता हिमसंपर्कविशीर्णा । अन्यरूपा नष्टशोभा । अस्यार्थस्य मूलं ‘हिमहतनलिनीव नष्टशोभा’ इति वचनम् । अनेन श्रीरामायणवचनार्थानुसारेण कवेः पूर्वोक्तो राम्कथाभिलाषः स्पष्टः ॥१६॥

सर्वेषामङ्गानां प्रघानभूतस्य मुखस्यान्यरूपत्वमाह - –-

उत्तरसन्देशः

५३


नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया

निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-

दिन्दोर्दैन्यं त्वदुपगमनक्लिष्टकान्तेर्बिभर्ति॥१७॥

नूनमिति । नूनं वितर्के । प्रबलरुदितोच्छूननेत्रं भूयिष्ठरोदनोच्छ्वसितनेत्रम् । उच्छूनं, 'टुओश्वि गतिवृद्धयोः’ इति धातोर्निष्ठानत्वे ‘वचिस्वपि –’ (६.१.१५) इत्यादिना संप्रसारणे कृते रूपमिदम् । असकलव्यक्ति अस्पष्टसकलप्रदेशम् । त्वदुपगमनक्लिष्टकान्तेरिति मेघसम्बन्धः । मेघसंवृतत्वमलकलम्बनस्थानीयम् ॥१७॥ तां ज्ञातुं लक्षणान्तराण्याह –

आलोके ते निपतति पुरा सा बलिव्याकुला वा

मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां

कच्चिद भर्तुः स्मरसि गिरिके ! त्वं हि तस्य प्रियेति॥

आलोक इति । आलोके दर्शने । ‘आलोको दर्शनोदद्योतावि’-त्यमरः । पुरा, भविष्यत्कालद्योतकमव्ययमिदम् । पुरा निपततीति निपतिष्यतीत्यर्थः । त्वां दृष्ट्वा सा भृशं मद्विरहाद् भूमौ निपतिष्यतीति यावत् । अस्मिन्नर्थे लिङ्गं- ‘तामुन्निद्रामवनिशयनाम्’ इति वक्ष्यमाणवचनम् । अथवा त्वद्दर्शनात् पुरा वक्ष्यमाणान् कुर्वती सा तवालोके भूमौ निपततीत्यर्थः । बलिव्याकुला, अत्र प्रियतमागमनार्थं देवताभ्यो बलिप्रदानं विवक्षितम् । तथा सप्तशत्यां – []"णेच्छइ पासासङ्की काओ दिण्णं पि पहिअवहुआए । ओअन्तकरअळोज्झिअवळअअमज्झट्ठिअं पिण्डं" ॥

इति । मत्सादृश्यं मत्प्रतिकृतिं मद्विषयमालेख्यम् । ‘आलेख्येऽपि च
  1. १. 'कुक्षौ च'
  2. २. 'तिविषये सृ'
  3. ३. 'यास्ति चेत् तां' क. पाठः
  4. *'नेच्छति पाशाशङ्की काको दत्तमपि पथिकवध्वा ।
    अवनतकरतलोज्झितवलयमध्यस्थितं पिण्डम् ॥