पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/33

पुटमेतत् सुपुष्टितम्

त्यर्थः । उपनमेत् उपगच्छेत् । नयनसलिलोत्पीडरुद्धावकाशां बाष्पौधनिरुद्धनिद्रावसराम् ॥ २३॥


आद्ये बद्धा विरहदिवसे या शिरोदाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं

गण्डाभोगात् कठिनविषमामेकवेणीं करेण॥२४॥

आद्य इति । शिरोदाम हित्वेति पाठः । शिखादाम हित्वेति पाठे शिखाशब्दः शिरःशब्दपर्यायो न भवति । ’घृणिज्वाले अपि शिखे’ इत्यमरसिंहवचने, ‘शिखा ज्वालाकेकिमौल्योरि’ ति यादवप्रकाशवचनेऽपि शिखाशब्दस्य शिरःशब्दपर्यायत्वादर्शनात् । स्पर्शक्लिष्टां स्पर्शने सक्लेशाम् । परस्परव्यतिषक्तफकेशविश्लेषणार्थं हस्तस्पर्शे कृते केशमूलेषु सव्यथामित्यर्थः । अयमितनखेन अकृत्तोपान्तनखेन । सारयन्तीं परामृशन्तीम् । गण्डाभोगाद् गण्डस्थलात् । कठिनविषमां कठिनोच्चावचाम् । एकवेणीम्, एकबन्धनवती वेणी एकवेणी ॥२४॥


पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान्
पूर्वप्रीत्या गतमपि ततः संनिवृत्तं तथैव ।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्च्छादयन्तीं

साभ्रेऽह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम्॥

पादानिति । पूर्वप्रीत्या पूर्वकालस्नेहेन । गतमपि इन्दोः पादान् प्राप्तमपि । ततः सन्निवृत्तं तथैवेति पाठः । तत इन्दुपादेभ्यः । सन्निवृत्तं स्वयमेव सन्निवृत्तम् खेदात् विरहव्यसनात् । पूर्वकालप्रीत्या चन्द्रकिरणान् गत्वा तेभ्यो विरहखेदाद् यथागतं निवत्तं चक्षुरित्यर्थः । पक्ष्मभिरक्षिरोमभिः । साभ्रेऽह्नि मेघच्छन्ने दिने । नप्रबुद्धां नसुप्तां स्थलकमलिनी सूर्यकिरणस्पृष्टा विकसति मेघच्छन्नैः किरणैरस्पृष्टा निमीलति च ॥२५॥ –-

उत्तरसन्देशः

५७


सा संन्यस्ताभरणमबला पेलवं धारयन्ती

शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रम् ।
त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यं

प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा॥२६॥

सेति । संन्यस्ताभरणं शरीरसादात् त्यक्ताभरणम् । पेलवं मृदु । त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यमिति, तथा दुःखितां दृष्ट्वा त्वमप्यवश्यं बाष्पं मोक्ष्यसीत्यर्थः । करुणावृत्तिः करुणामयचित्तवृत्तिर्यस्य । आर्द्रान्तरात्मा, मेघस्य जलार्द्रान्तरात्मत्वं विवक्षितम् ॥२६॥

सा त्वद्विरहे खिन्नां दशां प्राप्तुं किं कारणमित्याशङ्क्याह –

जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-

दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति

प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत्॥

जान इति । इत्यम्भूतां पूर्वोक्तदुःखावस्थाम् । भवान् सौभामग्येनैवमाहेत्याशङ्क्याह- वाचालं मामिति । सुभगंमन्यभावः । सुभगशब्दोपपदान्मन्यतेर्धातोः ‘आत्ममाने खश्च’ (३.२.८३) इति खश् । ‘अरुर्द्विषदजन्तस्य मुम्’ (६.३.६७) सुभगंमन्यः । तस्य भावः, सुभगंमन्यभावः । प्रत्यक्षं ते सकलमिति, मयोक्तमिदं सर्वं तवाचिरेण प्रत्यक्षं भविष्यतीत्यर्थः ॥२७॥

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं

प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि वामं मृगाक्ष्या

मन्ये मीनोञ्चलकुवलयश्रीतुलामेष्यतीति॥२८॥

रुद्धापाङ्गप्रसरं रुद्धापाङ्गे प्रसरो यस्य । अपाङ्गो नेत्रान्तः । अञ्जनस्नेहशून्यम् अञ्जनेन स्नेहः स्निग्धत्वम् अञ्जनस्नेहः तेन शून्यम् । प्रत्या