इति । सद्यःकण्ठच्युतभुजलताग्रन्धीति पदच्छेदः । गाढोपगूढं गाढालिङ्गनम् ॥३०॥
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरैः स्तनितवचनैर्मानिनीं प्रक्रमेथाः॥ ३१ ॥
तामिति । प्रत्याश्वस्तां प्रतियुद्धाम् । सममभिनवैर्जालकैर्मालतीनामिति, यथा जालकानि मेघजलकणिकाशीतलेनानिलेन रात्रौ समुच्छ्वसन्ति तथा प्रत्यागताश्वासां तामुत्थाप्येत्यर्थः । अनेन जातीकुसुमेभ्योऽप्यधिकं तस्याः सौकुमार्यमस्तीति सूचितम् । मालत्यः[२] खलु वर्षासु पुष्प्यन्ति रात्रौ च विकसन्ति । अस्मिन्नर्थे लिङ्गं श्रीरामायणवचनं –
इति । विद्युद्गर्भः अन्तःस्तम्भितविद्युत्कः । इदं विशेषणं तस्या मेघसन्दर्शनसुखार्थमुक्तम् । स्तिमितनयनां निश्चलनयनाम् त्वत्सनाथे त्वदधिष्ठिते त्वत्सहित इत्यर्थः । भर्तृसकाशादेव [३]कोऽप्यागच्छेद् इत्युत्कण्ठया सर्वदा वातायनदत्तदृष्टिमित्यभिप्रायः । धीरैर्गम्भीरैः । स्तनितवचनैः गर्जितबचनैः । मानिनीमुन्नतचित्तां मनस्विनीमित्यर्थः । ‘मानश्चित्तसमुन्नतिरि’त्यमरः । अनेन विशेषणेन तस्याः पुरस्ताद् धीरमेव वक्तव्यं कातरवचने तु सा मिथ्येति जानातीत्युक्तम् ॥३१॥
तत्सन्देशान्मनसि निहितादागतं त्वत्समीपम्
–-
६१
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि॥३२॥
भर्तुरिति । अविधवे !, अनेन तव भर्ता जीवतात्युक्तम् । अविधवापदं कविसमये भ्रष्टमिति न मन्तव्यं, तथा श्रीरामायणे प्रयोगात् –
इति । तत्सन्देशात् तत्सन्देशवचनकरणात् । अस्यार्थस्य द्योतकं मनसि निहितादिति वाक्यम् । न केवलं मित्रमात्रमहं, किन्तु त्वत्समागमाय तस्य प्रेरकश्च भवामीत्यभिप्रायेणाह- यो वृन्दानि त्वरयतीति । पथि श्राम्यतां पथिकानामित्यर्थः । प्रोषितानां स्वभार्यादिकं विहाय कार्यवशाद् देशान्तरगामिनामित्यर्थः । मन्द्रस्निग्धैः गम्भीरसुखश्रवैः । इदं विशेषणम् उग्रगर्जितश्रवणे प्रोषितानां विनाशो मा भीदित्यभिप्रायेण प्रयुक्तम् ॥३२॥
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव ।
श्रोष्यत्यस्मात् परमवहिता सौम्य ! सीमन्तिनीनां
इतीति । पवनतनयं हनूमन्तम् । सम्भाव्य चैव सम्भावनां च कृत्वैवेत्यर्थः [४]। अन्योऽयमिति न तूष्णीमास्ते, भर्तुर्मित्रमिति बुद्ध्वा सा निश्शङ्कमेव त्वां प्रेक्षिष्यते सम्भावयति चेत्यर्थं द्योतयितुमेवकारः प्रयुक्तः । अस्मात् परं भर्तुर्मित्रमित्येतस्माद् वचनात् परम् । अतः परभवधाने किं कारणमित्यपेक्षायामाह – सङ्गमात् ॥ ३३॥
र्ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ॥ ३४ ॥