पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/37

पुटमेतत् सुपुष्टितम्
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं

वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूपताकां

हन्तैकस्थं क्वचिदपि न ते चण्डि ! सादृश्यमस्ति॥

श्यामास्विति । श्यामासु प्रियङ्गुलतासु । उत्पश्यामि उत्प्रेक्षे । प्रतनुषु अतिशयेन तन्वीषु । भ्रूपताकां, पताका ध्वजं भ्रूरेव पताका भ्रूपताका । भ्रुबः पताकात्वेन रूपणं भावादिसूचकत्वात् । हन्त विषादे । एकस्थं एकत्र स्थितम् । चण्डि ! अत्यन्तकोपने! । अनेनैकत्र सादृश्यं लब्धं चेद् भवति तदेवालं भवति किं मया कार्यमिति मह्यं मा कुप्य इति परिहासाभिप्रायेण प्रयुक्तम् । सदृशमेव सादृश्यं, पूर्वोदाहृतानां सदृशवाचित्वात् ॥३७॥

चित्रदर्शनमाह--

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-

मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
आस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे

क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥३८॥

त्वामिति । धातुरागैः धात्वाख्याञ्जनद्रव्यैः । आत्मानं माम् । तस्मिन्नप्यालेख्येऽपि । नौ आवयोः । कृतान्तः दैवम् ॥३८॥

स्व्प्रसमागममाह-

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-

र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां

मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥ ३९ ॥

मामिति । सम्भावनार्थं नञ्द्वयं प्रयुक्तम् । स्थलीदेवतानां, त रुकिसलयेष्विप्ति वक्ष्यमाणत्वाद् वनशब्दाप्रयोगः । तरुकिसलयेषु, –-

उत्तरसन्देशः

६५


इदं पतितानामश्रुलेशानां प्रकाशनाय प्रयुक्तम् । स्वप्नसन्दर्शने कथमपि लप्स्यमानायास्तव निर्दया श्लेषहेतोः स्वापात् प्रागेवाकाशप्रणिहितमुजं मां दृष्ट्वा करुणरसाविद्धहृदया वनस्थलीदेवता बाष्पं मुञ्चन्तीत्यर्थः । अन्ये तु पश्यन्तीनां तुहिनकणिकाच्छद्मना देवतानामिति पाठमादृत्य व्याचक्षते । इदं रसावहं न भवति । कामार्तस्य तत्त्वं विहाय व्याजबाष्पमोचनवर्णनस्यायुक्तत्वात् [१] ॥३९॥

तदङ्ग्स्पृष्टस्पर्शनमाह--


भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः
आलिङ्ग्यन्ते गुणवति  ! मया ते तुषाराद्रिवाताः

पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥४०॥

भित्त्वेति । देबदारुद्रुमाणाम् । दारुशब्दे सति किमर्थं द्रुमशब्दः प्रयुक्त इति नाशङ्कनीयं, संज्ञापातित्वाद् दारुशब्दस्य । उक्तं च – ‘स देवदारुद्र्मवेदिकायाम्’ इति । दक्षिणेन, मार्गेणेति शेषः। ‘प्रकृत्यादिभ्य उपसंख्यानम्’ (वा० २.३.१८) इति तृतीया । अस्य विशेष्याप्रयोगः समेन धावति विषमेण धावतीतिवत् । प्रयुक्तं च ‘भूय एवोत्तरेण’ इति । गुणवति !, गुणः शरीरस्य हृद्यः स्पर्शगुणो विवक्षितः । गुणवति !, आलिङ्गनादिषु सुखस्पर्शवतीत्यर्थः । एतदेव विवृणोति- पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति । किलशब्दः सम्भावनायाम् । एभिः तुषाराद्रिवातैः । इतिशब्दो हेतौ । अस्यार्थस्य मूलं –

"वाहि वात ! यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश"

इति श्रीरामायणवचनम् ॥४०॥


संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा

सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्
  1. १. 'प्पस्य यु' क. पाठः.