पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/38

पुटमेतत् सुपुष्टितम्

६६

मेघसन्देशे सव्याख्ये
इत्थं चेतश चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः॥ ४१॥

सङक्षिप्येतेति । प्रार्थनायां लिङ् । सर्वावस्थासु ग्रीष्ममध्यन्दिनावस्थासु । मन्दमन्दातपं ‘प्रकारे गुणवचनस्य’ (८.१.१२) इति द्विर्वचनम् । अहरपि मन्दातपमेव स्यादित्यर्थः । दुर्लभप्रार्थनं दुर्लभत्रियामासंक्षेपादिप्रार्थनम् । गाढोष्णाभिः, अनेन दिवसस्य मन्दातपस्य विघातो विवक्षितः । अशरणम् अरक्षकं त्वद्वियोगव्यथाभिः । अनेन त्रियामासंक्षेपप्रतिबन्धो विवक्षितः ॥४१॥

इदानीं स्वशोकावस्थाकर्णनेन सा दुःखिता भविष्यतीत्याशङ्क्य तामाश्वासयति –
न त्वात्मानं बहु विगणयन्नात्मना नावलम्बे

तत् कल्याणि ! त्वमपि नितरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥ ४२ ॥

नेति । तुशब्दोऽवधारणे । बहु विगणयन् बहु भद्रकं भविष्यतीति । आत्मना स्वयमेव । अबलम्बे धारयामि । बहु विगणयन्नात्मानं स्वदेहं स्वयमेव धारयामीत्यर्थः । अस्य मूलं –

“दुष्करं कुरुते रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न शोकेनावसीदति”॥

इति श्रीरामायणवचनम् । तत् तस्मात् । कल्याणि ! कल्याणार्थिनि ! त्वमपि कल्याणाशंसिनी भूत्वा कातरत्वं मा गच्छेरित्यर्थः । मद्विशिष्टस्यापि सर्वस्य जनस्य सुखदुःखे पर्यायेण भवत इत्याह – कस्येति । अत्यन्तम् अतिक्रान्तावसानं, नित्यमिति यावत् । एकान्तत एकान्तम् । प्रथमार्थे तसिल् ॥४२॥

कदा कल्याणमावयोर्भविष्यतीत्यपेक्षायामाह-

–-

पूर्वसन्देशः

६७


शापान्तो मे भुजगशयनाद उत्थिते शार्ङ्गपाणौ

शेषान मासान गमय चतुरो लोचने मीलयित्वा
पश्चाद आवां विरहगुणितं तं तम आत्माभिलाषं

निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥ ४३ ॥

शापान्त इति । भुजगशयनादुत्यिते शार्ङ्गषाणाविति, अनेन यस्मिन् शरत्काले परमपुरुषः प्रबुध्यते तस्मिन् काले मम शापान्त इत्युक्तम् । तथा कौर्मे पुराणे –

"क्षीराब्धौ शेषपर्यङ्क आषाढयां संविशेध्दरिः ।
निद्रां त्यजति कार्तिक्यां तयोः संपूजयेध्दरिम्" ॥

इति । मासानन्यान् गमय चतुर इति, आषाढमासादिकानाश्वयुजमा सान्तानित्यर्थः । ननु आषाढस्य प्रथमदिवस इत्युक्तम् । आषाढश्रावणौ प्रावृद् । ततः परं शरदिति प्रसिध्दम् । तस्मात् कथमाषाढात् प्रभृति मासचतुष्टयात् परः शरत्काल इत्युक्तम् । उच्यते । ऋतूनां कल्पना द्विधा । केचित् षडृतव इति वदन्ति । अपरे त्रय इति । अत्र तावद् ऋतुत्रयपक्षाश्रयेणोक्तम् । तथा श्रीरामायणे –

"चत्वारो वार्षिकाः प्रोक्ता गता वर्षशतोपमाः"

इति । लोचने मीलयित्वेति वचनं ;लोकोक्तिच्छाययोक्तम् । विरहगणितमिति पाठः । विरहकाले पश्चादेवमनुभविष्याव इति गणितं सङ्कल्पितम् । आत्माभिलाधं गण्यित्वा हृदये निहितमित्यर्थः । निर्वेक्ष्यावोऽनुभविष्यावः ॥४३॥

सर्वमिदं वञ्चकवचनमिव प्रतिभाति । मया ज्ञातपूर्व किमपिलक्षणं वदेत्याशङ्कयाह –
भूयश्चाह त्वम अपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किम अपि रुदती सस्वरं विप्रबुद्धा