पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/4

पुटमेतत् सुपुष्टितम्
निवेदना ।
-----

 मेघसन्देशस्य प्रदीपाख्यव्याख्यासचिवस्येदं प्रकाशनम् इदम्प्रथमं नाम । प्रदीपस्य प्रस्थानं तावत् प्रौढं च सहृदयमनोरमं च यज्जातीयमेव तत्रभवान् व्याख्यानविद्याप्रवीणचूडामणिः अरुणगिरिनाथः कुमारसम्भवादिव्याख्यायामाश्रितवान् । अत्र बहुषु स्थलेषु मूलपाठा मल्लिनाथादृतमूलपाठेभ्यश्चारुतरा उपलभ्यन्ते ।

 अस्य प्रणेता दक्षिणावर्तनाथो नानार्थार्णवसंक्षेपकर्तारं क्रैस्ताब्दीयद्वादशशतकस्थितं केशवस्वामिनं स्मरति, अरुणगिरिनाथेन स्मर्यते च । अतस्तयोरन्तरालकालप्रभवोऽयमिति स्फुटमेव । दक्षिणावर्तनाथ इति नाम्नायां चोलाभिजनः सम्भाव्यते, यतः चोलमण्डलान्तर्वर्तिनः 'तिरुवलञ्चुषि' (டிருவலஞ்சுஷி) इति द्रमिलभाषाप्रसिद्धस्य ग्रामस्याधिष्ठातृदेवो दक्षिणावर्तनाथ इति श्रूयते; तस्यैव देवस्य नामधेयमस्मिन् निवेशितमिति च सम्भाव्यते। दक्षिणावर्त इत्येतच्च 'वलञ्चुषि' (வலஞ்சுஷி) इत्यस्यैव संस्कृतीकरणं भाति । तिरुवलञ्चुषि शब्दे तिरुशब्दस्तु श्रीपर्यायवाची पूजायां प्रयुक्तो द्रष्टव्यः । अनेन विनिर्मितं कुमारसम्भवव्याख्यानं रघुवंशव्याख्यानं चास्माभिरुपलब्धमस्ति, यदनतिचिरादस्यां ग्रन्थावलौ ग्रथयिष्यामः ।

 अस्य चिरन्तनस्य मेघसन्देशव्याख्यानरत्नस्यादर्शदानेन कृतपरमोपकारं कैलासपुर-गोविन्दपिषारोटिमहोदयं तिरुपार्पु-कृष्णवार्यमहोदयं च प्रति वयं कृतज्ञाः स्मः ॥

अनन्तशयनम्,

३१-१०-१०९४.}

त. गणपतिशास्त्री.