पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/40

पुटमेतत् सुपुष्टितम्

इष्टान् देशान् विचर जलद ! प्रावृषा संभृतश्री-

र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥ ४७ ॥

एतदिति । अनुचितप्रार्थनावर्त्मनः भवतः प्राधान्यमनादृत्य मत्प्रियायै सन्देशं हरेत्येवमनुचितप्रार्थनाप्रकरस्य । सौहार्दाद् वा एतावन्तं कालमाभाषणादिजनितात् सुहृद्भावादित्यर्थः । उक्तं च – ‘सम्बन्धमाभाषणपूर्वमाहुः’ इति । विधुर इति वा । विधुरः प्रियाविश्लिष्टः । मयि विधुर इत्यनुग्रहबुद्ध्या वेत्यर्थः । विचर, विपूर्वश्चरतिः सकर्मको भवति । ‘अधिज्यधन्वा विचचार दावम्’ इत्युक्तत्वात् । प्रावृषा संभृतश्रीः वर्षाकालेन संभृतशोभः । अयमत्र समाधिः –कश्चित् पथिको देशान्तराणि गच्छन् कयापि दास्या संभृतार्थो भवतीति । एवं मम वियोगप्रकारेण । तव विद्युता विप्रयोगो मा भूदिति देशान्तरगमनात् पथिकायमानस्य भवतः क्षणमपि मम कान्तयेव विद्युता विप्रयोगो मा भूदित्यभिप्रायः ॥४७॥

इति श्रीदक्षिणावर्तनाथविरचितो

मेघसन्देशप्रदीपः समाप्तः ।

 ----
शुभं भूयात् ॥