पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/6

पुटमेतत् सुपुष्टितम्
मेघसन्देशे सव्याख्ये

प्रमत्तः स्वस्याधिकारात् स्थानात् प्रमत्तः भ्रष्टोऽनवहितः । ‘प्रमादोऽनवधानता’ इत्यमरः[] । ‘जुगुप्साविरामप्रमादार्थानाम्--'(वा० १.४.२४) इत्यपादाने पञ्चमी । स्वाधिकारप्रमत्त इति पाठे समासः कृच्छ्रलभ्यः । शापेन शापफलेन । निग्रहवचनं शापः । अस्तङ्गमितमहिमा, अस्तमिति मकारान्तमव्ययमिदम् । अस्तंगमितेत्येकं पदम् । वर्षभोग्येण कृत्स्नैकवर्षभोग्येण । ‘अत्यन्तसंयोगे च’ (२.१.२९) इति समासः । भर्तुः पोष्टुः, स्वामिन इत्यर्थः । यक्षो देवयोनिविशेषः । जनकतनयेत्यादिना रामकथा सूचिता । स्त्रिग्धच्छायातरुषु स्निग्धा लावण्यशालिनः छायाप्रचुरास्तरवो येषु रामगिर्याश्रमेषु । अनेनापि रामकथा सूचिता । बहुवचनेन विरहखेदादेकत्रावस्थानं तस्य न भवतीति सूचितम् ॥ १ ॥

तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥

 तस्मिन्निति । अद्रिग्रहणं पूर्वश्लोके रामगिर्याश्रमे (ष्वित्युक्त)- त्वात् कृतम् । कतिचित्, अनिर्दिष्टसङ्ख्याविशेषेऽप्यस्मिन् पदे सङ्ख्याविशेषो द्रष्टव्यः । तद्यथा ‘मासानन्यान् गमय चतुरो लोचने मीलयित्वा’ इति वक्ष्यमाणवचनेन चतुर्णां मासानां गमयित(व्यं ? व्यत्वं) प्रतीयते । ते चाषाढात् प्रभृति चत्वारो मासाः, ‘आषाढस्य प्रथमदिवस’ इति वक्ष्यमाणत्वात् । पारिशेष्यादेकस्मिन् वत्सरे मासाष्टकं गमितमिति प्रतीयते । अबलाविप्रयुक्तः । पूर्वश्लोके कान्ताविप्रयोगे कथिते सत्य(पि) पुनर्वचनं वक्ष्यमाणकनकवलयभ्रंशादेः कान्ताविरह एव निमित्तमिति सूचयितुम् । कामीति पदमाश्रमवासित्वेऽपि तस्य तपःपरत्वं नास्तीति सूचयितुम् । कनकवलयभ्रंशरिक्तप्रकोष्ठः । विरहकार्श्यात् कामिनां कनकवलयभ्रंशो भवति । तथा शाकुन्तले –-

पूर्वसन्देशः
 

"इदमशिशिरैरन्तस्तापाद् विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं मया प्रतिसार्यते ॥"

इति । न त्वधिकारनिषेधादिति भावः । वप्रक्रीडापरिणतगजप्रेक्षणीयं वप्रक्रीडा तटाघातक्रीडा तदर्थं परिणतस्तिर्यग्दन्तप्रहारवान् गजः । ‘तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः’ इति हलधरः । अनेन विशेषणेन मत्तगजदर्शनात् कार्यसिद्धिर्भवतीति सूचितम् । अत्र महायात्रायां वराहमिहिरः--

"ज्वलितशिखिफलाक्षतेषुयक्षद्विरदमृदङ्गकचामरायुधानि ।
मरतककुरुविन्दपद्मरागस्फटिकमणिप्रमुखाश्च रत्नभेदः ॥

 स्वयमपि रचितान्ययत्नतो वा यदि कथितानि भवन्ति मङ्गलानि ।"

इति ॥ २ ॥

तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो-
रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥

 तस्य स्थित्वा कथमपि पुर इति । स्वप्रवृत्तिं प्रियां प्रति मेघेन हारयितुकामस्तदर्थं मेघस्य स्वागतादिकरणाय कामार्तोऽपि महता यत्नेन तस्य पुरः स्थित्वेत्यभिप्रायः । कौतुकाधानहेतोरिति पाठः । कौतुकं कामविषयौत्सुक्यम् । कौतुकार्पणहेतोरित्यर्थः ।

 "कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले ।

 कामे ख्याते मङ्गले च"

इति यादवः । केतकाधानहेतोरिति पाठे केतकानां गर्भाधानहेतोरित्यर्थः किल भवेत् । इदमत्यन्तश्लाघ्यविशेषणं न स्यादिति बोद्ध

  1. 'रः । स्वा’ क. पाठः.