पृष्ठम्:यतिराजविजयम्.pdf/101

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्कः ܐܢܐ गीता , सभयम पाणिना स्पृशन्ती ) हा हताऽस्मि, जिते त्रिवर्गेण । सुम हा कान्त ! करुणानिधे! मदर्थ परित्यक्तजीवितोऽसि । (इति कराभ्यां कण्ठे गृह्वाति। गाढ़े परिष्वजन्ती मुखमाचुम्बत ) राजा--(सुखस्पर्श 'अमिनीय किंचिदुन्मीलति) गीता - सानन्दम् ) वत्से ! सुमतिस्पर्शेन लब्धसंज्ञ इव देवो दृश्यते । सुनी ( सस्मितम्) प्रियसखि ! पुनरप्येवं कुर्वती कान्तमुज्जीवय । सुम --( सविलक्षस्मितम् ) विप्रलब्धाऽस्मि प्रियसंस्त्यं ( इति राजानमुत्सृजति ) राजा-(सलीलं कण्ठे गृहति) सुनी -( सस्मितं राजमुखम् अवलोक्य ) प्रियसवि ! धूर्तोऽयम् त्वयाऽपि यथेष्टं क्रियताम् । नायमावयोरवसरः | {इति गीतया सह निष्क्रान्ता) राजा - (करांगुलीकिसलयाभ्यां 'चिबुकमुन्नमय्य) मुदितः कदा शयिष्ये मुखमिदमाम्राय मुकुलेिनापांगम् । मुग्धस्मितं रतान्ते मुक्ताताटंकमुद्रितकपोलम् ।। २१ || सुम -(सविलक्षस्मितम ) धूनचरिते पथि वर्तमान: किं मामेवं त्रीड़यसि ? राजा (पुरो दशैयति) कुण्डलितकण्ठनालः कुर्वन्ति सुखेन ‘घूर्णितापांगा: । कण्टकिनेि कमलकाण्डे कण्ड्रयनकेलिमुत्सुका हंसा:'। २२ । 1. नॉटयन -पा० | 3 || - || B. पीडथासि -qf० 4. कूणितपङ्गा -पां० 5. कण्ड्रयनमरुणमुखपदा हंसा -पा०