पृष्ठम्:यतिराजविजयम्.pdf/123

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठोऽङ्कः (ततः प्रविशति यतिराजः, शिष्यश्च ) यति। --(विचिन्त्य) वत्स ! सर्वेऽन्ये तिष्ठन्तु । निरालम्बन' मप्येतदेवं साधयतो मतम् । शङ्करस्य तु लीलेये गगने चित्रलेखनम् । {प्रचिशय शङ्करः) शङ्क -साधु यतिराज, सम्यग्दृष्टवानसि ।

  • मद्वीपाटवदर्शनाय विदधे तत्त्वस्थितेरन्यथा

मिथ्यामेयभमेयमेव सदिति प्रस्थानमन्यन्मया । (विहस्य) पश्यंस्तत्त्वमिदं च मुह्यति' बत प्राज्ञोऽसि किंत्वद्भुतं नन्यो वेति नभ:स्थले विलिखत: चित्राणि मे कौशलम्। यति -सम्यगाह भवान् । द्रष्टा 'यदाऽवमन्बेत 'गगने पहजोद्धम्। तदा दर्शयितुर्नष्टं कुहनाशिल्पकौशलम् ॥ शङ्क -अहं तु पर्येङ्कविद्यामुपासितुमनन्तपुरं गच्छामि । ( इति निष्क्रान्तः ) 1. निरालम्बनमेवेतत्। -पा० 2. बुद्धे: पाटबंदर्थेनाय-पॉ० 3. मुह्यति जनः -पा० 4. द्रष्टा यदा चेन्मन्येत -पा० 5. पाषाणे पहजोद्भवम-पाs