पृष्ठम्:यतिराजविजयम्.pdf/70

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R 6 यतिराजविजयमू-नाटकमू यदपत्यतया स्तैति श्रुतिरेव हुताशनम् । ऊर्वशी - तत्पतिभ्यां तु पावनान्तरमस्ति किम् (१) '; ८ ॥ श्रुतिरपि ताभ्यां रूपिता ' अरणिजन्यो बहिरश्वमेथे च पुनाति" इत्याह । राजा-तथा श्रृंयते खठ पुराणेषु । मन्त्री--(स्वगतम्) महाराजमनिच्छन्तमपि मोहयितुमेषां प्रगल्मैव । तदस्माभि रवकाशो देयः । (प्रकाशम) देव ! किंचिद्राजकार्यमस्ति । राजा-किं तत? मन्त्री–भवद्वाज्यरत्नभूर्त परं ब्रह्म निराकृत्य, तत्प्रतिबिम्बतया तच्छेषभूतानसत्कल्५}न् जीवनेव संसारिणः परमार्थपदे स्थापयन्, वेदविचारोऽस्माकमरातिरेव । तस्मातदुच्छेदाय गच्छामि । राजा-साधु चिन्तितममायेन | (मन्त्री निष्क्रान्तः ) मिथ्या-(महारार्ज कण्ठे गृहीत्वा,) महाराज! दर्शनमात्रेण चिरकालानुरूढप्रणय पेशले लक्ष्यसे । किन्तु,' चन्द्रदर्शनमात्रेण चन्द्रकान्तशिलाऽपि यत् । द्रवीभवति तत्पुंसि स्निह्मति स्रीति नाद्भुतम् ॥ ९ | राजा-५ सपुलकोद्धेदम ) (स्वगतम! प्रकृतिप्रगल्मैव वेश्याजोतिः, यदनिच्छन्तमपि मामियं मोहयति ।। { प्रकाशम्) ग्रेयसि ! संप्रति प्रणयपरवशतया न किचिदपि मे' परिस्फुरति प्रेियालप: | मिथ्या- (सदिलासं पश्यन्ती) देव ! दृश्यताम् । 1. अथवा -पा० मे मंत्र-ि०