पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

वित्तिथावन्वष्टक्यातिदेशेन यद्विहितम् । अमावास्यास्यां पिण्डपितृयज्ञानन्तरं यद्विहितं तत्पार्वणम्। स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु यद्विहितं तत्काम्यम् । अभ्युदयेषु पुत्रोत्पत्यादिषु तडागारामदेवताप्रतिष्टादिपु च यद्विहितं तदाभ्युदयेिकम् । अष्टम्यां अष्टका विहिता । एकोद्दिष्टम् । अत्रैकोद्दिष्टशब्देन सपिण्डीकरणं लक्षयति, तत्रैको द्दिष्टस्यापि सद्भावात्, साक्षादेकोद्दिष्टे तदभावात् । अथवा गृह्यभाष्यकारमते सा क्षादेकोद्दिष्टऽपि पाणिहोमस्य सद्भावात्सैौक्षादेकोद्दिष्टमेव । एतेपामष्टानामाद्येषु चतुषु सान्निकस्याप्रैौ होमः । उत्तरेषु चतुपुं पित्र्यब्राह्मणहस्ते । निरन्निकस्यापि प्रमीतपितृ कस्य द्विजस्य पार्वणं नित्यमिति तस्यापि पाणावेव होमः–‘न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ।।' इति वच नात् । एवं काम्याभ्युदयिकाष्टकैकोद्दिष्टषु पाणावेव होम –“अग्यभावे तु विप्रस्य पाणावेवोपपादथेत्’ इति (३॥२१२) मनुस्मरणात्। पाणिदत्तस्य पृथग्ग्रासप्रतिषेधै उच्यत । यथा डुगृह्यकारा अत्रं पाणितले दत्तं पृथगश्चन्त्यबुद्धयः । पित तृप्यन्ति शेषात्रं न लभन्ति ते । यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते’ इनि ॥ २३६ ॥ २३७ ॥
अन्नानिवेदनम्--

दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ।
कृत्वेदंविष्णुरित्यने द्विजाङ्गुष्ठं निवेशयेत् ।। २३८ ।।

अन्नमोदनसूपपायसघृतादिकं भाजनेपु दैत्वा “पृथिवीते पात्रं’ इत्यादिना मत्रेण पात्राभिमत्रणं कृत्वा “इदं विष्णुर्विचक्रमे' इत्यनयची अज्ञे द्विजाछुष्ठं निवे शयेत् । तत्रच वैश्वदेवे यज्ञोपवीती विष्णो हव्यं रक्षेति । पित्र्ये प्राचीनावीती विष्णो कव्यं रक्षेति ।–“विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात्’ इति मनुस्मरणात् ॥ २३८ ॥

सव्याहृतिकां गायत्रीं मधुवाता इति ऋचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।। २३९ ।।

अनन्तरं विश्वभ्योदेवेभ्य इदमत्रं परिविष्टं परिवेक्ष्यमाणं चातृसेरिति यवोदकेन दैवे निवेद्य, तथा पित्रे अमुकगोत्रायामुकशर्मणे इदमत्रं परिविष्टं परिवेक्ष्यमाणं चातृसेरिति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपितामहाय च निवे द्यानन्तरमापोशनं दत्त्वा पूर्वोक्ताभिव्यह्यतिभिः सहितां गायत्रीं ‘मधुवाता’ इति तृचं मधुमधुमध्विति त्रिवारं जप्त्वा यथासुखं जुषध्वमिति ब्रूयात् । -“संकल्प्य पितृदेवेभ्यः सावित्रीं मधुमजप । श्राद्धं निवेद्यापोशार्न जुषप्रैषोऽथ भोजनम् ।।' तथा-‘गायत्रीं त्रिः सकृद्वापि जपेडद्याह्मतिपूर्विकाम् । मधुवाता इति तृवं मध्वि-


१ लक्ष्यते ख. २ सद्भावादेको क . ३ प्रतिषेधश्च दृश्यते ग. ४ पूर्वमश्धन्यवु ग. ५ कृत्वा ग