पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

विद्वाँश्छागलेयोदितो विधिः ॥' इत्येवंवचनविप्रतिपत्तौ दाक्षिणात्या येवं व्यव स्थामाहुः–‘औरसक्षेत्रजाभ्यां मातापित्रोः क्षयाहे पार्वणमेव कर्तव्यं दुत्तका दिभिरेकोद्दिष्टम्’ इति जातूकण्र्यवचनात्,–‘प्रत्यब्दं पार्वणेनैव विधिना क्षेत्र जैौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥’ इति । तदसत् । नह्यत्र क्षयाहव चनमस्ति अपितु प्रत्यब्दमिति । सन्ति च क्षयाहव्यतिरिक्तानि प्रत्यब्दश्राद्धान्य क्षयतृतीयामाघीचैशाखीप्रभृतिषु । अतो न क्षयाहविषयपार्वणैकोद्दिष्टव्यव पराशरवचनम्–“पितुर्गतस्य देवत्वमौरसस्य त्रिपौरु षम् । सर्वत्रानेकगोत्राणामेकस्यैव मृतेऽहनि ।।' इति । तदपि न व्यवस्थाप देवत्वं गतस्य सपिण्डीकृतस्य पितुः सर्वत्रैौरसेन त्रिपौरुषं पार्वणं कार्यम् । अनेकगोत्राणां भिन्नगोत्राणां मातुलादीनां क्षयेऽहनि यच्छाद्धं तदेकस्यैवैकोद्दिष्टमेवेति । किंच–‘सपिण्डीकरणादूथ्र्वमप्येकोद्दिष्टमेव कर्तव्यमौरसेनापि’ इत्युक्तं पैठीनसिना–“एकोद्दिष्टं हि कर्तव्यमौरसेन मृते ऽहनि । सपिण्डीकरणादूध्र्व मातापित्रोर्न पार्वणम् ।' इति । उदीच्याः पुनरेवं व्यवस्थापयन्ति -अमावास्यायां भाद्रपदकृष्णपक्षे वा मृताहे पार्वणमन्यत्र मृताह् एकोद्दिष्टमेवेति–अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुन । पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ॥’ इति स्मरणात् । तदपि नाद्रियन्ते वृद्धाः । अनिश्चितमूलेनानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्रपार्वणविषयाणां वचनानाममावास्याप्रेतपक्षमृताहविषयत्वेनातिसंकोचस्यायुक्तत्वात् । सामान्य वचनानर्थक्याञ्च । तत्र हि सामान्यवचनस्य विशेषवचनेनोपसंहारो यत्र सामा न्यविशेषसंबन्धज्ञानेन वचनद्वयमर्थवत् । यथा सप्तदश सामिधेनीरनुन्यूया दित्यनारभ्याधीतस्य विकृतिमात्रविषयस्य सप्तदशवाक्यस्य सामेिधेनीलक्षण द्वारसंबन्धबोधनार्थवतो मित्रविन्दाद्विप्रकरणपठितेन सदशवाक्येन मित्र विन्दाद्यधिकारापूर्वसंबन्धबोधेनार्थवता उपसंहार । इह तु द्वयोर्भूताहमात्र विषयत्वान्नार्थवतेति । अतोऽत्र पाक्षिकैकोद्दिष्टनिवृतिफलकतया पार्वणानि यमविधानं युक्तम् । नचैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणि वचनानां च तदन्यक्षयाहविषयत्वेन व्यवस्था युक्ता । उभयत्रापि मातापितृसु तग्रहणस्य विद्यमानत्वात्--'सपिण्डीकरणादूध्र्व प्रतिसंवत्सरै सुतैः । माता पित्रोः पृथकार्यमेकोद्दिष्टं मृतेऽहनि ॥’ इति । तथा-*आपाद्य सहपिण्डस्वः मौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छूाद्धं मातापित्रोः क्षयेऽहनि ॥’ इति । यदपि कैश्चिदुच्यते—‘मातापित्रोः क्षयाहे साझिः पार्वणं कुर्यान्निरभिरेकोद्दिष्ट मिति–‘वर्षे वर्षे सुतः कुर्यात्पार्वणं योऽझिमान्द्विजः । पित्रोरनभिमान्धीर एकोद्दिष्ट मृतेऽहनि ॥’ इति सुमन्तुमरणादिति । तदपि सप्रतिपक्षत्वादुपेक्ष ‘णीयम् । ‘बह्मयस्तु ये विप्रा ये चैकाझय एव च । तेषां सपिण्डनादूध्र्वमेको 'द्दिष्ट न पार्वणम् ॥' इति सरणात् । तत्रैवं निर्णयः-संन्यासिनां क्षयाहे


१ संकोचः स्यादित्युक्तत्वात ग. २ सप्तदशपदस्य क