तद्वन्तः । स्वर्णरूप्ये हेमरजते । तञ्चतिरिक्त त्रपुसीसकादि कुप्यकम् । ज्ञातित्रैष्टं
ज्ञातिघूत्कृष्टत्वम् । सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्चाद्य
कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्वमावास्यापर्यन्तासु चतुर्दशी
वर्जितासु चतुर्दशसु तिथिषु श्राद्धदो यथाक्रममामोति । ये केचन शस्त्रहतास्ते
कृष्णचतुर्दश्यामेकोद्दिष्टविधिना श्राद्धं दद्याद्यदि ब्राह्मणादिहता न भवन्ति
मत्वमागतस्यापि पितुः शस्रहतस्य वै । एकोद्दिष्टं सुतैः कार्यचतुर्दश्यां महा
इति स्मरणात् । समत्वमागतस्य सपिण्डीकृतस्य महालये भाद्रपद्कृ
ष्णचतुर्दश्यां शस्रहतस्यैव श्राद्ध नान्यस्येति नियम्यते न पुनः शस्रहतस्य चतु
श्यामेवेति । अतश्च क्षयाहादौ शस्रहतस्यापि यथाप्राप्तमेव श्राद्धम् । नच
भाद्रपदकृष्णपक्ष एवायं श्राद्धविधिरिति मन्तव्यम्--'प्रैौष्ठपद्यामपरपक्षे मासेि
२६२ ॥ २६३ ॥ २६४ ॥
नक्षत्रविशेषात्फलविशेषमाह--
खर्ग ह्यपत्यमोजश्च शौर्य क्षेत्रं बलं तथा ।
पुत्रं श्रेष्ठयं च सौभाग्यं समृद्धिं मुख्यतां शुभाम् ।। २६५ ।।
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ।। २६६ ।।
धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् ।
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ।। २६७ ।।
कृत्तिकादिभरण्यन्तं स कामानापुयादिमान् ।
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ।। २६८ ।।
कृत्तिकामादिं कृत्वा भरण्यन्तं प्रतिनक्षत्र यः श्राद्धं ददाति स यथाक्रमं स्वर्गादीनायुःपर्यन्तान्कामानवाप्तोति, यद्यास्तिकः श्रद्दधानो व्यपेतमदमत्सर भवति । आस्तिको विश्वासवान् । श्रद्दधान आदरातिशययुक्तः । व्यपेतमद्म त्सरः मदो गर्वः मत्सर ईष्र्या ताभ्यां रहित स्वग निरतिशयसुखम् । अप त्यमविशेषेण । ओज आत्मशक्तयतिशय शौर्य निर्भयत्वम् । क्षेत्रं फलवत् बलं शारीरम् । पुत्रेो गुणवान् । श्रेष्ठयं ज्ञातिषु । सौभाग्यं जनप्रियता । समृ द्धिर्धनादेः । मुख्यता अयता शुभं सामान्येन । प्रवृत्तचक्रता अप्रतिहता ज्ञता । वाणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः । अरोगित्वं अनामययो गित्वम् । यशः प्रख्यातिः । वीतशोकता इष्टवियोगादिजनितदुःखाभाव परमा गतिर्बह्मलोकप्राप्तिः । धनं सुवर्णादि । वेदा ऋग्वेदादयः । भिषक्सि द्धिरौषधफलावाप्तिः । कुप्यं सुवर्णरजतव्यतिरिक्त ताम्रादि । गावः प्रसिद्धाः । २६५ ॥ २६६ ॥ २६७ ॥ २६८ ॥
१ सौभाग्यं क. २ श्रद्दधानश्रेत् ख. ३ स्वर्गेऽतिशयसुखं क. ४ अनामयित्वं ग