यविधहेतुपरिज्ञानात् । विनायको विज्ञेश्वरः पुरुषार्थसाधनानां कर्मणां विन्नसि
द्धयर्थ स्वरूपफलसाधनत्वविधैतसिद्धये विनियोजितः नियुक्तः रुद्रेण ब्रह्मणा
चकाराद्विष्णुना च गणानां पुष्पदन्तप्रभृतीनामाधिपत्ये स्वाम्ये ॥ २७१ ॥
एवं विश्वस्य कारकहेतुमुक्त्वा ज्ञापकहेतुप्रदर्शनार्थमाह--
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।
खझेऽवगाहतेऽत्यर्थ जलं मुण्डांश्च पश्यति ।। २७२ ।।
काषायवाससचैव क्रव्यादांश्चाधिरोहति ।
अन्त्यजैर्गर्दभैरुट्टैः सहैकत्रावतिष्ठते ।। २७३ ।।
व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः ।
तेन विनायकेनोपसृष्टो गृहीतो यस्तस्य लक्षणानि ज्ञापकानि निबोधत
जानीध्वं हे मुनयः । पुनर्मुनीनां प्रत्यवमर्शः शान्तिप्रकरणप्रारम्भार्थः । स्वमे
स्वमावस्थायां जलमत्यर्थमवगाहते स्रोतसा ह्रियते निमज्जति वा । मुण्डितशिरसः
पुरुषान्पश्यति । काषायवाससो रक्तनीलादिवख्वप्रावरणांश्च । क्रव्यादा नाम
मांसाशिनः पक्षिणः गृध्रादीन्मृगांश्च व्याघ्रादीनधिरोहति । तथान्यजैश्चण्डा
लादिभिः गर्दभैः खरैरुट्टैः क्रमेलकैः सह परिवृतस्तिष्ठति । व्रजन्गच्छन्नात्मानं
परैः शत्रुभिः पृष्ठतो धावद्भिरनुगतमभिभूयमानं मन्यैते ॥ २७२ ॥ २७३ ॥
एवं स्वमदर्शनान्युक्त्वा प्रत्यक्षलिङ्गान्याह--
विमना विफलारम्भः संसीदत्यनिमित्ततः ।। २७४ ।।
तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारमपत्यं गर्भमङ्गना ।। २७५ ।।
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ।
वणिग्लाभं न चाप्तोति कृषिं चापि कृषीवलः ।। २७६ ।।
विमना विक्षिप्तचित्तः । विफलारम्भः विफला आरम्भा यस्य स तथोक्तः न कचित्फलमाप्तोति । संसीदत्यनिमित्ततः विना कारणेन दीनमनस्को भवति । राजनन्दनो राजकुले जातः श्रुतशैौर्यधैर्यादिगुणयुक्तोऽपि राज्यं न लभते । कुमारी रूपलक्षणाभिजनादिसंपन्नापीप्सितं भर्तारम् । अङ्गना गर्भिण्यपत्यम् । ऋर तुमती गर्भम्। अध्ययनतदर्थज्ञाने सत्यपि आचार्यत्वं श्रोत्रियः । विनयाचारादियु क्तोऽपि शिष्योऽध्ययनं श्रवणं वा । न लभत इति सर्वत्र संबद्धते । वणिकू वाणिज्योपजीवी तत्र कुशलोऽपि धान्यादिक्रयविक्रयादिषु लाभम् । कृषीवलः कर्षकस्तत्राभियुक्तोऽपि कृषिफलं नामोति । एवं यो यया वृत्या जीवति स तत्र निष्फलारम्भश्चत्तनोपसृष्टो वेदितव्यः ॥ २७४ ॥ २७५ ॥ २७६ ॥
१ विधानसिद्धये क. २ अनुमन्यते ग.