पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

एवं कारकज्ञापकहेतूनभिधाय विघ्रोपशान्त्यर्थ कर्मविधानमाह--

स्रपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।

तस्य विनायकोपस्पृष्टस्याऽनागतविनायकोपसर्गपरिहा रार्थिनो वा स्नपनमभि षेचनं कर्तव्यम् । पुण्ये स्वानुकूलनक्षत्रादियुक्त । अह्नि दिवसे न रात्रैौ । विधि पूर्वकं शास्त्रोत्तेतिकर्तव्यतासहितम् ॥
स्नपनविधिमाह--

गौरसर्षपकल्केन साज्येनोत्सादितस्य च ।। २७७ ।।
सवौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ।। २७८ ।।

गौरसर्षपकल्केन सिद्धार्थपिष्टन साज्येन घृतलोलीकृतेनोत्सादितस्योद्वर्तिता ङ्गस्य तथा सर्वोषधे प्रियडुनागकेसरादिभिः सर्वगन्धेश्चन्दनागुरुकस्तूरिकादि भिर्विलिसशिरसो वक्ष्यमाणभद्रासनोपविष्टस्य पुरुषस्य द्विजा ब्राह्मणाः शुभा श्रुताध्ययनवृत्तसंपन्नाः शोभनाकृतयश्चत्वारो*ऽस्य स्वस्ति भवन्तो बुवन्त्वि'ति वाच्याः । अस्मिन्समये गृह्योक्तमार्गेण पुण्याहवाचनं कुर्यादित्यर्थः ॥२७७॥२७८॥

अश्वस्थानाद्भजस्थानाद्वल्मीकात्संगमाद्भदात् ।
मृत्तिकां रोचनां गन्धान्गुग्गुलं चाऽप्सु निक्षिपेत् ।। २७९ ।।
या आहृता ह्येकवणैश्चतुर्भिः कलशैदात् ।
चर्मण्यानडुहे रक्त स्थाप्यं भद्रासनं ततः ।। २८० ।।

किंच । अश्वस्थानगजस्थानवल्मीकसरित्संगामाशोष्यहदभ्य आहतां पञ्च विधां मृदं गोरोचनं गन्धान् चन्दनकुङ्कनागुरुप्रभृतीन् गुग्गुलं च तास्वप्सु विनिक्षिपेत् । या आप आह्यता एकवणैः समानवणैश्चतुर्भिः-कुम्भैरवणास्फुटिताका लकैः हृदादशोण्यात् संगमाद्वा । ततश्चानडुहे चर्मणि रक्त लोहितवर्णे उत्तरलोमनि प्राचीनग्रीवे भद्रं मनोरममासनं श्रीपर्णनिर्मितं स्थाप्यम् । तत उक्तोदकमृत्तिका गन्धादिसहितांश्रूतादिपछवोपैशोभिताननान्खग्दामवेष्टितकण्ठांश्चन्दनचवितान्नवा हृतवस्त्रविभूषितांश्चतसृषु पूर्वादिदिक्षु स्थापयित्वा शुचौ सुलिसे स्थण्डिले रचितपञ्चवर्णस्वस्तिके लोहितमानडुहं चमोत्तरलोम प्राचीनग्रीवमास्तीर्य तस्यो परि श्वतवस्रप्रच्छादितमासनं स्थापयेदित्येतद्भद्रासनम् । तस्मिनुपविष्टस्य स्वस्तिवाच्या द्विजाः ॥ २७९ ॥ २८० ॥

सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन खामभिषिञ्चामि पावमान्यः पुनन्तु ते ।। २८१ ।।


१ घृतमिश्रेण. २ कुम्भैः शुभैरत्रणा. ख.३ शोभितानू नानास्रग्दाम ख. ४ ताननाहत ग.