किंच । स्वस्तिवाचनानन्तरं जीवत्पतिपुत्राभिः रूपगुणशालिनीभिः सुवेषाभि कृतमङ्गलं पूर्वदिग्देशावस्थितं कलशमादायानेन मत्रेणाभिषिञ्चेदुरुः । सहस्रा क्षमनेकशक्तिकं शतधारं बहुप्रवाहमृषिभिर्मन्वादिभिर्यदुदकं पावनं पवित्रं कृतं उत्पादितं तेनोदकेन त्वां विनायकोपसृष्टं विनायकोपसर्गशान्तये अभिषिञ्चामि । पावमान्यश्वता आपस्त्वा पुनन्तु ॥ २८१ ॥
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।। २८२ ।।
तदनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशमादायानेन मत्रेणाभिषिञ्खेत् । भगं कल्याणं ते तुभ्यं वरुणो राजा भग सूर्यो भगं बृहस्पतिः भगमेिन्द्रश्च वायुश्च भगं सप्तर्षयश्च ददुरिति ॥ २८२ ॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद् भ्रन्तु सर्वदा ।। २८३ ।।
ततस्तृतीयं कलशमादायानेन मत्रेणाभिषिञ्चेत् । ते तव केशेषु यद्दौर्भा ग्यमकल्याणं सीमन्ते मूर्धनि च ललाटे कर्णयोरक्ष्णोश्च तत्सर्वमापो देव्यो जन्तु उपशमयन्तु सर्वदेति ॥ २८३ ॥
स्रातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ।। २८४ ।।
ततश्चतुर्थ कलशमादाय पूर्वोत्तैस्त्रिभिर्मत्रैरभिषिञ्चेत् । ‘सर्वमत्रैश्चतुर्थम्’ इति मैत्रलिङ्गात् । उत्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीतकुशान्त हिंते सार्षपं तैलं उदुम्बरवृक्षोद्भवेन त्रुवेण वक्ष्यमाणैर्मत्रैर्जुहुयादाचार्यः ॥ २८४ ॥
मितश्च संमितथैव तथा शालकटङ्कटौ ।
कूष्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ।। २८५ ।।
नामभिर्बलिमत्रैश्च नमस्कारसमन्वितैः ।
मितसंमितादिभिर्विनायकस्य नामभिः स्वाहाकारान्तैः प्रणवादिभिर्जुहुया
दिति गतेन संबन्धः । स्वाहाकारयोगाच्चतुर्थी विभक्तिः । अतश्च ॐमिताय स्वाहा
ॐ-संमिताय स्वाहा, ॐशालाय स्वाहा, ॐ-कटङ्कटाय स्वाहा, ॐकूष्माण्डाय स्वाहा,
ॐ-राजपुत्रायस्वाहेति षण्मत्रा भवन्ति । अनन्तरं लौकिकेऽौ स्थालीपाकवि
धिना चरुं श्रपयित्वा एतैरेव षङ्गिर्मत्रैस्तस्मिन्नेवाद्वैौ हुत्वा तच्छेषं बलिमत्रैरि
न्द्राग्यिमनितिवरुणवायुसोमेशानब्रह्मानन्तानां नामभिश्चतुथ्र्यन्तैर्नमोन्वितै
स्तेभ्यो बलिं दद्यात् ॥ २८५ ॥
अनन्तरं किं कुर्यादित्याहे--
दद्याचतुष्पथे शूर्वे कुशानास्तीर्य सर्वतः ॥ २८६ ॥
१ स्मृतिलिङ्गात् ग. २ दित्याह दद्यादित्यादिचतुर्भिः ग. या० ११