पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
गणपतिकल्पप्रक० ११]
९३
मिताक्षरासहिता ।

ततः शुक्लाम्बरधरः शुछमाल्यानुलपन्नः ।
ब्राह्मणान्भोजयेद्दद्याद्वस्रयुग्मं गुरोरपि ।। २९२ ।।

अम्बिकोपस्थाने भगवतीत्यूहः । ततोऽभिषेकानन्तरं यजमानः शुङ्काम्बरधरः शुङ्कुमाल्यानुलेपनो ब्राह्मणान्भोजयेद्यथाशक्ति । गुरवे श्रुताध्ययनवृत्तसंपन्नाय विनायकस्रपनविधिज्ञाय वस्रयुग्मं दद्यात् । अपिशब्दाद्यथाशक्ति दक्षिणां वेिना यकोद्देशेन ब्राह्मणेभ्यश्च । तत्रायं प्रयोगक्रमः-चतुर्भिब्रह्मणैः सार्धमुक्त लक्षणो गुरुर्मत्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तज्जननीं चोक्तम त्राभ्यां गन्धपुष्पादिभिः समभ्यच्र्य चवरुं श्रपयित्वा भद्रासनोपविष्टस्य यजमानस्य पुण्याहवाचनं कृत्वा चतुर्भिः कलशैरभिषिच्य सार्षपं तैलं शिरसि हुत्वा चरु होमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं दद्यात् । यजमानस्तु खानानन्तरं शुक्कुमाल्याम्बरधरो गुरुणा सहितो विनायकाम्बिका भ्यामुपहारं दत्त्वा शिरसा भूमेिं नत्वा कुसुमोदकेनाध्यै दत्वा दूर्वासर्षपपुष्पा अञ्जलिं च दत्त्वा विनायकमम्बिकां चोपतिष्ठत् । गुरुपहारशेषं शूपें कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्रयुग्मं दक्षिणां ब्राह्मणभोजनं च दद्यादिति ॥ इति विनायकस्रपनविधिः ॥ २९१ ॥ २९२ ॥
अस्यैव विनायकस्रपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुमाह--

एवं विनायकं पूज्य ग्रहांचैव विधानतः ।
कर्मणां फलमाझेोति श्रियं चामोत्यनुत्तमाम् ।। २९३ ।।

एवमुक्तन प्रकारेण विनायकं संपूज्य कर्मणां फलमविक्रेनाइोतीत्युक्तोपसंहारः । संयोगान्तरमाह--श्रियं चोत्कृष्टतमामामोतीति । श्रीकामश्वानेनैव विधानेन विना यकं पूजयेदित्यर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्याद्विकामस्य च ग्रहपू. जादिकल्पं विधास्यन् ग्रहपूंजामुपक्षिपति-ग्रहांश्चैव विधानत इति । ग्रहानादित्या दीन्वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धिमाप्तोति श्रियं चाप्नोति ॥ २९३ ॥ नित्यकाम्यसंयोगानाह--

आदित्यस्य सदा पूजां तिलकं खामिनस्तथा ।
महागणपतेचैव कुर्वन्सिद्धिमवापुयात् ।। २९४ ।।

आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कमकुसुमादिभिः पूजां कुर्वन् स्कन्दस्य महागणपतेश्च नित्यं पूजां कुर्वन् सिद्धिं मोक्षमात्मज्ञानद्वारेण प्राप्तोती ति नित्यसंयोग । आदित्यस्कन्दगणपतीनामन्यतमस्य सर्वेषां वा तिलकं स्वर्णा दिनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिमभिलषितामाझेोति तथा चक्षुषी चेति काम्यसंयोगः ॥ २९४ ॥

इति महागणपतिकल्पः ।


१ विनायकोपस्थाने भवन्नित्यूहः. क. ख. २ ग्रहपूजां लक्षयति. ग