रम्यं रमणीयं अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् ।
आजीव्यमुपजीव्यं कन्दमूलपुष्पफलादिनि । जाङ्गलं यद्यप्यल्पोकतरु-
पर्वतो देशो जाङ्गलस्तथाप्यत्र संजलतरुपर्वतो देशो जाङ्गलशब्देनाभिधीयते ।
तं देशमावसेदधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेरात्मनश्च
रक्षणार्थं दुर्गं कुर्वीत । तच्च षड्धिम्। यथाह मनुः ( ७।७० )–“धेन्वदुर्गा मही
दुर्गम दुर्ग वार्श्वसेव वा । नृदुनैं गिरिदुर्गे वा समाश्रित्य वसेत्पुरम् ॥' इति ३२१
तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन् । |
किंच । तत्र तत्र घेर्मार्थकामादिषु अध्यक्षान् योग्यानधिकारिणः प्रकुर्याद्भि
युञ्जीत । यथाहुः—‘धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्लीबालि-
युञ्जीत नीचान्निन्धेषु कर्मसु ॥’ इति । कीदृशान् । निष्णाताननन्यव्यापारान् ।
कुशलान् तत्तद्यापारचतुरान् । शुचीन् चतुर्विधोपधाञ्छद्धन् । आयकर्मसु सुव
द्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यताननलसान् । चश-
ब्दात्प्राज्ञत्वादिगुणयुक्तान् । उक्तंच–‘प्राज्ञस्त्वमुपधाशुद्धिरप्रमादोऽभियुक्तता ।
कार्येषु व्यसनाभावः स्वमिभक्तिश्च योग्यता ॥’ इति ॥ ३२२ ॥
‘भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च' इति सामान्येन स्वस्वदानमु
क्तम्, इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयमाह -
नातः परतरो धर्मो नृपाणां यद्रणाजितम् । |
अस्मादुकृष्टतमो धम नृपानां न विद्यते यद्रणार्जितं इव्यं विप्रेभ्यो दीयते ।
यच्च प्रजाभ्योऽभयदानम् ॥ ३२३ ॥
रणार्जितं देयमित्युक्तं, द्रख्यार्जनाय रणे प्रवृत्तस्य विपत्तिरपि संभवतीति न
धम नाप्यर्थ इति ततो निवृत्तिरेव श्रेयैसीत्यत आह-
य आहवेषु वध्यन्ते भूम्यर्थमपराङ्खाः। |
ये भूम्याद्यर्थमाहवेषु प्रवृत्ता अपराङखा अभिमुखा वध्यन्ते मार्यन्ते ते
१ समजल क. २ धन्वदुर्ग असंवेष्टितं चतुर्विंशं पञ्चयोजनमनुदकम् । महीदुर्ग पाषा णेष्टकायुतद्वादशहस्तोच्छूितेन युद्धार्थमुपरिभ्रमणयोग्येन सावरणगवाक्षादियुक्तेन प्राकारेण समन्ताद्वेष्टितं सदारम् । जलदुर्गमगाधोदकेन समन्ततो वेष्टितम् । वाले बहि: सर्वतो योजन मात्रं व्याप्य तिष्ठन्महावृक्षकण्टकिगुल्मलताद्यचितम् । नूदुर्ग चतुर्दिगवस्थायिहस्त्यश्वरथयु तबहुपादातरक्षितम् । गिरिदुर्गे सर्वेतपृष्ठम। संकोचैकमागोपेतं अन्तर्नदीप्रस्रवणा धूदकयुक्तं बहुसस्योत्पन्नक्षेत्रदृक्षान्वितम्. ३ धमदिरूयादिषु ग• ४ ज्यायसी ग.