स्वर्ग यान्ति । योगाभ्यासरता यथा । यद्यकूटैरविषदिग्धादिभिरायुधैर्योद्धारो भवन्ति ॥ ३२४ ॥
पदानि क्रतुल्यानि भमेष्वविनिवर्तिनाम् । |
किंच । स्वबलेषु करितुरगरथपदातिषु भन्नेष्वविनिवर्तिनां परबलाभिमुखया येिनां पदानि क्रतुल्यान्यश्वमेधतुल्यानि । विपर्यये दोपमाह-विपलायिनां पराडुखानां हतानां राजा सुकृतमादत्ते ॥ ३२५ ॥
तवाहंवादिनं क्रीबं निहॅर्ति परसंगतम् । |
अपिच । तवाहमिति यो वदति तं कृीबं नपुंसकं निर्हतिं निरायुधं परसंग तमन्येन सह युद्धव्यमानं विनिवृत्तं युद्धाद्विनिवृत्तं युद्धप्रेक्षणकं युग्द्वदर्शिनं । न हन्यादिति सर्वत्र संबन्धः । आदिग्रहणादश्धसारथ्यादीनां ग्रहणम् । यथाह गौतमः–‘न दोषो हिंसायामाहवेऽन्यत्र व्यश्धसारथ्यानायुधकृताञ्जलिप्रकी र्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगोब्राह्मणादिभ्य ' इति । शङ्को प्याह-‘न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नाचमीणं सवर्मा न स्त्रियं न करेणु न वाजिनं न सारथिनं न सूतं न दूतं न ब्राह्मणं न राजमनमराजा
कृतरक्षः समुत्थाय पश्यदायव्यय स्वयम् । |
कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातःकाल उन्थाय स्वयमेवा यव्ययौ पश्येत् । ततो व्यवहारान् दृष्टा मध्याह्नकाले स्नात्वा कामतो यथाकालं भुञ्जीत ॥ ३२७ ॥
हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । |
तदनन्तरं हिरण्यं व्यापृतैर्हिरण्याद्यानयननियुक्तरानीतं स्वयमेव निरीक्ष्य भाण्डागारेषु निक्षिपेत् । ततश्चारान्स्पशान्प्रत्यागतान्पश्येत् । ये परराज्ये वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास्तां ऋचिन्निवेशयेत् । तदनन्तरं दूतांश्च पश्येत् । दूताश्च ये प्रकटमेव राजान्तरंप्रति गतागतमाचरन्ति । ते त्रिविधाः च । संदिष्टार्थाः शासनैहराश्चेति । निस्सृष्टार्थाः तत्र निस्पृष्टार्थी
राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं क्षमाः । उक्तमात्रं ये परमै निवेदयन्ति ते संदिष्टार्थाः । शासनहरास्तु राजलेखहारिणः ता
१ हिरण्यादिकं ख. २ श्धारान्विश्वस्तान् ख. ३ चासनहस्ताश्धति कः