इत्येवमुक्तप्रकारेण ऋतुल्यं फलं दण्ड्यदण्डेन, स्वर्गादिनाशं चाद्दण्ड्य दण्डेन सम्यग्विचिन्त्य पृथक्पृथग्वर्णादिक्रमेण सभ्यैर्वक्ष्यमाणलक्षणैः परिवृत प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण दुष्टादुष्टपरिज्ञानार्थ राजा स्वयं पश्येत् ॥३६०॥
कुलानि जातिः श्रेणीश्च गणाञ्जानपदानपि । |
कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्तप्रभृतयः । श्रेणयस्ताम्बूलिका
दीनाम् । गणा हेलावुकादीनाम् । जानपदाः कारुकादयः । एतान्स्वधर्माचलि
तान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् ।
दण्डं दुर्वतेषु निपातयेदित्युक्तं सच दण्डो द्विविधः शारीरोऽर्थदण्डश्चेति ।
यथाह नारदः–‘शारीरश्चार्थदण्डश्च दण्डो हि द्विविधः स्मृतः । शारीरस्ताडना
द्विस्तु मरणान्तः प्रकीर्तित ॥ काठिन्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथेव च । ॥
इति । द्विविधोऽप्यपराधानुसारेरणानेकधा भवति । आह सम–‘शारीरो दशधा
प्रोक्तो ह्यर्थदण्डस्त्वनेकधा’ इति ॥ ३६१
तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्यास्ते च प्रतिदेशं भिन्नप
रिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो माभूदिति कृष्णला
द्विशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारेर दर्शयितुमाह -
जालसूर्यमरीचिस्थै त्रसरेणू रजः स्मृतम् । |
जालकान्तरप्रविष्टादित्यरश्मिथितं यद्वजस्तत् त्रसरेणुरित्युक्तं योगीश्वरादि भिस्तत्त्वदर्शिभिः । तेच त्रसरेरणवोऽष्ट लिक्षा स्वदजयूकाण्डम् । ता लिक्षा स्तिस्रो राजसर्षपो राजिका । ते राजसर्षपास्रयो गौरसर्षपः सिद्धार्थः । गौरस र्षपाः षड् यवो मध्य । मध्यमो न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि मध्यमशब्दादेव सर्षपादिशब्दा न केवलमुन्मानवचनाः किंतु तदुन्मितद्रव्यवचना इति गम्यते । यथा प्रस्थप रिमिता यवाः प्रस्थ उच्यते । एवं सर्षपाद्युन्मितं द्रव्यं सर्षपादिशब्दैः । सर्ष पादिशब्दानां च केवलोन्मानवचनत्वे त्रसरेशूनुपसंहृत्योन्मातुमशक्यत्वात्त रेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतमसूक्ष्मसूक्ष्मतर सूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्डव्यवहारे
मध्य इति नियम्यते । ते मध्यमा यवाख्य एकः कृष्णल । ते कृष्णला
१ वक्ष्यमाणधर्मेण क. २ हेलावुका अश्वव्यवहारिणः. ३ रेणूनामुपसंहृत्य क